________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता
अन्यथा वह्निमान् धूमादित्यादौ संयुक्तसंयोगादिपरम्परासम्बन्धस्यापि संयोगत्वेन हेतुतावच्छेदकसम्बन्धतया तेन सम्बन्धेन धूमवतो हृदादेरप्युक्त हेत्वधिकरणतापत्तेः । तथा च प्रकृते विशिष्टसमवायत्वावच्छिन्नावच्छेदकताकाधेयतानिरूपकत्वं न गुणादेरिति नाव्याप्यवकाश इति वाच्यम् *; स्वाश्रयसंयोगादिरूपपरम्पराया वृत्त्यनियामकतया तत्सम्बन्धेन धूमाधिकरणत्वाप्रसिद्ध चैवाव्याप्त्यनवकाशेन तद्विवक्षणानावश्यकत्वात् ।
"
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकः
अव्याप्त्यनवकाशेनेति । न च तादात्म्यादिसम्बन्धेन व्याप्यत्वनिर्वाहार्थमधिकरणत्वस्थाने सम्बन्धित्वस्यावश्यं विवक्षणीयतया नाव्याप्यवकाश इति वाच्यम् ; वृत्तिनियामकसम्बन्धेनैव व्याप्यत्वमिति पक्षाश्रयणेन सम्बन्धित्वपर्यन्तानिवेशादित्यभिआलोकप्रकाशः
विशेषणस्थ पुरुषस्य निगृहीतत्वमात्रम्, न तु व्याप्यत्वासिद्धिहेत्वाभास इत्याशयः । मूलेहेतुतावच्छेदकविशिष्टवैशिष्ट्या वगाहिपरामर्शस्यैवेति । अन्यथा सल्लिङ्गकपरामर्शाद् गुणादौ द्रव्यत्वानुमित्यापत्तेरिति भावः । विशिष्टनिरूपितसमवायस्यैवेति विशेष्ये विशेषणमिति रीत्या जायमान-ज्ञानाद्वैलक्षण्यनिर्वाहाय, विशिष्टवैशिष्ट्या वगाहिज्ञाने विशिष्टप्रतियोगिकसम्बन्ध भानस्यैव प्राचामनुमतत्वादिति भावः । प्रकारान्तरेणैवेति । विशिष्टवैशिष्टयावगाहिज्ञाने धर्मिणि विशेषणता - 1 वच्छेदकस्यापि पारतन्त्र्येण भानरूपवक्ष्यमाणप्रकारेणेत्यर्थः । सम्बन्धांशे भ्रमत्वमेवेति । ननु सम्बन्धघटकपदार्थेषु प्रकारविशेष्यभावविरहात्तत्प्रकारकत्वघटिततद्भ्रमत्वस्य सम्बन्धांशे कथमुपपत्तिः । न च तदभाववन्निष्ठ विषयतानिरूपिततन्निष्ठविषयताकत्वमेव भ्रमत्वम्, न तु प्रकारत्वघटितम् तथा च सम्बन्धांशे भ्रमत्वमुपपद्यत एवेति वाच्यम्; एवं सति रूपवान् घट इति प्रमाया . घटाभाववद्रूपनिष्ठविषयतानिरूपितघटनिष्ठ विषयताकत्वेन भ्रमत्वापत्तेरिति चेन्न; सम्बन्धघटकपदार्थेषु प्रकारविशेष्यभावाभावेऽपि विशेषणविशेष्यभावस्याभ्युपगमेन तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठविशेषणता कत्वरूपस्य भ्रमत्वस्य सम्बन्धांशे सूपपादत्वात् । न च संसर्गतावच्छेदकस्य विशेषणत्वे प्रकारत्वमपि दुरपह्नवमिति शङ्कयम्; उपस्थितिघटितत्वाघटितत्वाभ्यां सामग्रीभेदेन तयोर्भेदात् । अथ " अन्यधर्मस्योपस्थितस्यासति विशेषदर्शनेऽन्यत्रावभासोऽन्यथाख्यातिः” इति भ्रमलक्षणानुसाराद्विशेषणोपस्थित्यादिघटिता भ्रम सामग्यवधार्यते, तथा च संसर्गविशेषणस्य पूर्वमनुपस्थित्या कथं तत्र भ्रमत्वसम्भव इति चेन्न, लक्षणवाक्यस्थस्य उपस्थितस्येत्यस्य प्रायिकत्वाभिप्रायकतया उपस्थितैः सामग्रीशरीर प्रवेशतात्पर्यकत्वाभावात् । अन्यथा
For Private And Personal Use Only
२५