________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका न गुणादेरित्यव्याप्तिविरहाद्धेतुतावच्छेदकावच्छिन्नत्वविशेषणं व्यर्थमेवेति वाच्यम्; विशिष्टवैशिष्टयावगाहिशाने सर्वत्र विशेष्ये विशेषणमिति रीत्या जायमानशानाद्वैलक्षण्याय विशिष्टप्रतियोगिकवैशिष्टयभानाङ्गीकारे संयोगेनैकत्वप्रागभावविशिष्टघटवत्संयोगेन रूपवानित्यादिविशिष्टवैशिष्टयभानानुपपत्तिः। संयोगेनैकत्वप्रागभावविशिष्टप्रतियोगिकत्वस्य रूपत्वविशिष्टप्रतियोगिकत्वस्य च बाधेन सम्बन्धाप्रसिद्धः। तथा च प्रकारान्तरेणैव वैलक्षण्यमुपपादनीयमिति शुद्धसमवायस्यैव हेतुतावच्छेदकसम्बन्धतया तत्सार्थक्यात् । स्पष्टश्चेदं सिद्धान्तलक्षणे 'इत्थश्चेदं द्रव्यं गुणकर्मान्यत्वे सति सत्त्वात्' इति दीधितिव्याख्यानावसरे गादाधर्याम् ।
(९) * न च * उक्तज्ञानयोः सम्बन्धांशे भ्रमत्वमेव स्वीक्रियते । अत एवाकाशावित्यादिवाक्यजन्यस्य योग्यताभ्रमाधीनशाब्दबोधस्य पर्याप्त्याख्यसम्बन्धविशेषांशे आकाशत्वव्याप्यत्वभ्रमत्वमिति गदाधरोक्तिः, गुणीयसंयोगसम्वन्धेन वह्नः साध्यत्वे गुणीयत्वाभाववत्संयोगो बाध इति जगदीशोक्तिश्च सङ्गच्छते। एवञ्च विशिष्टप्रतियोगिकसमवाय एव प्रकृते हेतुतावच्छेदकः सम्बन्ध इति न तत्सार्थक्यमिति वाच्यम्; * एवमपि विशिष्टप्रतियोगिकत्वविशिष्टसमवायस्य शुद्धसमवायस्य चैक्येन शुद्धसमवायस्यापि हेतुतावच्छेदकसम्बन्धतया हेतुतावच्छेदकावच्छिन्नत्वानिवेशे पूर्वोक्ताव्याप्तेर्दुर्वारत्वात् ।
(१०) * न चाकंधेयतायां हेतुतावच्छेदकसम्बन्धतावच्छेदकतापर्याप्त्यधिरणधर्मपर्याप्तावच्छेकदताकावच्छेदकताकत्वमवश्यं विवक्षणीयम् ।
नूतनालोकः न्धत्वे तेन शुद्धसत्तादेरव्यभिचारितया तद्विशेषणवैयर्थ्यमिति विशिष्टहेतुकस्थले निग्रहप्रसङ्ग इति वाच्यम् ; विशिष्टविशेषणकबुद्धावेव विशिष्टनिरूपितत्वस्य सम्बन्धतावच्छेदकतया भानात्तद्रूपविशिष्टनिरूपितसमवायादिना तद्रूपानवच्छिन्नस्य हेतुत्वासम्भवात् । हेतुतावच्छेदकसम्बन्धतावच्छेदकतापर्याप्तीति । धूमे साध्ये स्वजन्यधूमप्रतियोगिकसंयोगसम्बन्धेन वह्निहेतौ शुद्धसंयोगसम्बन्धमादायाव्याप्तेः पूर्वपर्याप्तिनिवेशः। अवश्यं विवक्षणीयमिति । हेतुतावच्छेदकावच्छिन्नत्वनिवेशेऽपीत्यादिः ।
आलोकप्रकाशः भावः। यदि चाभावीयानुयोगितायाः सम्बन्धावच्छिन्नत्वमस्तीति विभाव्यते, तदा प्रथमसम्बन्धघटकनिरूपितत्वस्थाने निरूपकत्वमेव निवेश्यमिति दिक् । निग्रहप्रसङ्ग इति । व्यर्थ
For Private And Personal Use Only