________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता (८) * न च * विशिष्टसत्ताहेतुकस्थले विशिष्टनिरूपितसमवाय एव हेतुतावच्छेदकसम्बन्धः। येन सम्बन्धेन हेतुमत्ताशानमनुमितिजनकम् , तस्यैव हेतुतावच्छेदकसम्बन्धत्वात् । प्रकृते च हेतुतावच्छेदकविशिष्टवैशिष्टयावगाहिपरामर्शस्यैवानुमितिजनकतया तत्र च विशिष्टनिरूपितसमवायस्यैव प्रकारतावच्छेदकसम्बन्धत्वात् । तथा च हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणत्वं
नूतनालोकः तादृशाधेयतानिरूपकत्वमेव विवक्ष्यताम् । इत्थश्च द्वितीयसम्बन्धो व्यर्थ इति वाच्यम् , तथापि धूमाधिकरणता पर्वतान्या धूमाधिकरणतात्वादित्यादौ पक्षरूपाधिकरणताव्यावृत्त्यर्थ तदावश्यकत्वात्। अधिकरणतात्वेनाधिकरणतानिवेशाद् धूमधूमत्वावच्छिन्नाधेयत्वोभयनिरूपितां तदुभयाभावनिष्ठामनुयोगितां निरुक्तोभयसम्बन्धेन हेतुविशिष्टामादाय नाव्याप्त्यवकाशः। न चैवमपि कालिकसम्बन्धावच्छिन्ना या संयोगसम्बन्धावच्छिन्नधूमत्वाच्छिन्नाधेयत्व-धूमैतदुभयत्वावच्छिन्नाधेयतानिरूपिता हृदनिष्टाधिकरणता, तामुक्तोभयसम्बन्धेन हेतुविशिष्टामादायाव्याप्तिर्दुर्वारैवेति वाच्यम् ; अधिकरणतायामेव हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वविवक्षेणेनोक्ताधिकरणताव्यावृत्तेः। न चैवं सत्यभावीयानुयोगितायाः सम्बन्धानवच्छिन्नत्वादेव व्यावृत्तेरधिकरणतात्वेन निवेशो व्यर्थ एवेति वाच्यम् । यतोऽत्राधिकरणतापदं नाधिकरणतात्वेनाधिकरणतानिवेशतात्पर्यकम् , अपि तु हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वेन तन्निवेशतात्पर्यकमेवेति । वस्तुतस्त्वत्राधारत्वाधेयत्वयोस्तत्तद्रूपेण वैकल्पिकमुपादानं विवक्षितम् । तावतैव धूमत्वावच्छिन्नसंयोगसम्बन्धावच्छिन्नाधिकरणतानिरूपितसंयोगसम्बन्धावच्छिन्नाधेयताया धूमसंयुक्तनिष्ठाया व्यावृत्तेः । विशिष्टनिरूपितसमवाय एवेति । न च विशिष्टनिरूपितसमवायादेहेतुतावच्छेदकसम्ब
आलोकप्रकाशः दव्याप्तिरिति सम्बन्धककोटौ स्वभिन्नत्वस्यापि प्रवेशः । तत्रैवोभयभेदमादाय दर्शितदोषवारणाय भेदे प्रतियोग्यवृत्तित्वमपि देयम् । व्यर्थ इति । धूमाधिकरणत्वनिष्ठाया धूमाधिकरणत्वनिष्ठाधेयत्वाधिकरणतायास्तादृशाधेयतानिरूपितत्वेऽपि तन्निरूपकत्वाभावेन व्यावृत्तेरिति भावः । व्यावृत्तेरिति । घटत्वविषयकज्ञानस्य घटत्वप्रकारकज्ञानं प्रति विशेषणज्ञानविधया या कारणता, तद्वयावृत्तेरप्युपलक्षणमिदम् । तेन धूमानुयोगिकसंयोगे वृत्तिनियामकत्वस्य सविवादत्वेऽपि न क्षतिः । तथा च वह्निमान् धूमात् , घटत्वज्ञानवान् घटत्वप्रकारकज्ञानादित्यादौ नाव्याप्तिरिति
For Private And Personal Use Only