________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
'न च' मालिका
(७) न च * यन्निष्ठाधेयतानिरूपितत्वस्थाने यन्निष्ठाधेयतानिरूपकत्वमेवोपादीयते । तथा चोतस्थले धूमाधिकरणत्वनिष्ठाधेयत्वाधिकरणताया धूमाधिकरणत्वनिष्ठा या आधेयता, तन्निरूपितत्वेऽपि तदनिरूपकत्वान्न तादृशाधिकरणतामादायान्याप्तिः । इत्थञ्च यन्निरूपितत्वमपि नोपादेयमिति वाच्यम्; तथा सति घटत्वाभाववान् स्वरूपसम्बन्धावच्छिन्न वृत्तित्वादित्यादावव्याप्तेः । तत्र घटनिष्ठा या तद्वयक्तित्वाद्यधिकरणता, तस्या अधिकरणविधया हेतुनिष्ठाधेयतानिरूपकत्वादिति चेत् ? सत्यम् । यत्समानाधिकरणपदेन स्वनिष्ठ - हेतुतावच्छेदकावच्छिन्नाधेयतानिरूपितत्व-स्वनिरूपितत्वोभयसम्बन्धेन हेतु
विशिष्टाधिकरणतावद्वृत्तित्वस्य विवक्षणान्न कोऽपि दोष इति । अत्राधेयतायां हेतुतावच्छेदकावच्छिन्नत्वोपादानान्न विशिष्टसत्ताहेतुकेऽव्याप्तिः, गुणनिष्ठाधिकरणतायाः सत्तात्वावच्छिन्नाधेयतानिरूपितत्वेऽपि हेतुतावच्छेदकीभूतविशिष्ट
Acharya Shri Kailassagarsuri Gyanmandir
सत्तात्वावच्छिन्नाधेयतानिरूपितत्वाभावात् ।
नुतनालोकः
त्वोभयसम्बन्धेन हेतुविशिष्टान्यत्वस्य द्वितीययत्पदार्थे विवक्षणादियमव्याप्तिः शक्यते वारयितुम्, तथापि घटपटान्यतरत्वाभावे साध्ये घटत्वाभाव पटत्वाभावोभयस्मिन् हेतावव्याप्तिः । तत्र घटत्वाभावपटत्वाभावयोः प्रत्येकमुक्तसम्बन्धेन परस्पर विशिष्टतया यत्पदेन ग्रहीतुमशक्यत्वादिति तथा विवक्षा न कृतेति भावः । हेतुनिष्ठेति । तादृशाधिकरणतानिष्ठघटवृत्तितारूपहेतुनिष्ठेत्यर्थः । इत्थन उक्ताधिकरणतायास्तद्वयक्तित्वनिष्ठघटवृत्तिता रूपहेतु निरूपितत्वाद्यन्निरूपितत्वोपादानेऽपि न निस्तार इति सूचितम् । स्वनिष्ठेत्यादि । आधारत्वाधेयत्व योर तिरिक्तत्वमभ्युपेत्येदम् । न चात्र प्रथमसम्बन्धस्थाने
1
आलोकप्रकाशः
वाच्यमित्यत्र कृत्प्रत्ययो भावार्थक इति पक्षे नञो लक्षणयाऽप्रामाण्यमर्थः । तथा चानुपूर्वी - विशेषावच्छिन्नं वाक्यमप्रमाणमिति बोधः । इयं रीतिर्वाच्यादिसमभिव्याहार एव सम्भवति । न तु ज्ञानविशेषबोधकशकिमन्यादिस्थले शङ्कयं मन्तव्यमित्यादी । तत्साधारणी रीतिरन्यतोSवसेया । विस्तरभयान्नेह लिख्यते । प्रमेयावृत्त्यधिकरणत्वाप्रसिद्धेरिति । न च व्यतिरेकित्व हेतुवृत्तित्वो भयाभावविवक्षणान्नेयमव्याप्तिरिति वाच्यम् ; तथा सति घटत्वाभावादिहेतुकस्थलेऽव्याप्तेः, तत्र हेतुसाधारणहेत्वधिकरणतायामुक्तोभयाभावसत्त्वात् । व्याख्यायाम् - स्वनिष्ठेति । धूमाभाववान् वह्नयभावादित्यादौ स्वनिष्ठेत्यादिसम्बन्धेन । यत्पदार्थस्य हेतुविशिष्टत्वा
For Private And Personal Use Only