________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता । *वाच्यम्क, एवमपि धूमाधिकरणताभिन्नत्वे साध्ये धूमाधिकरणत्वधूमाधिकरणत्वनिष्ठाधेयत्वनिष्ठाधेयत्वैतदन्यतरस्मिन् हेतावव्याप्तः । तत्र साध्यशून्ये धूमाधिकरणत्वरूपहेतावपि स्वनिष्ठाधेयत्वाधिकरणतामादाय निरुक्तहेत्वधिकरणत्वस्योपपादयितुं शक्यत्वात् । हेत्वधिकरणतायां हेत्ववृत्तित्वम् , यन्निरूपितेत्यत्र यत्पदार्थे हेतुनिष्ठाधेयत्वावृत्तित्वं वा विवक्ष्यत इति न साम्प्रतम् ; आये प्रमेयात्मकसद्धतावव्याप्त्यापत्तेः। द्वितीये धूमाभाववान् वह्नयभावादित्यादौ तदापत्तेः । तत्र वह्नयभावरूपहेतोर्वह्नयभाववृत्त्याधेयत्वेऽपि सत्त्वात् ।
नूतनालोकः । न तु तेन रूपेण प्रवेशो वैयर्थ्यात् । शक्यत्वादिति । प्रथमयत्पदेन धूमाधिकरणत्वस्य धारणे तन्निष्ठा या आधेयता पर्वतवृत्तित्वरूपा, आधेयविधया तन्निरूपितत्वस्य, द्वितीयतत्पदेन पर्वतवृत्तित्वरूपादेयत्वनिष्ठाया आधेयताया ग्रहणे हेत्वात्मकतन्निरूतित्वस्य च धूमाधिकरणत्वनिष्ठपर्वतवृत्तित्वाधिकरणतायां सत्त्वादिति भावः। न चात्र प्रथमयत्पदेन धूमाधिकरणत्वस्य ग्रहणे तत्पदोपस्थाप्यस्य तस्यैव द्वितीययत्पदेनापि ग्रहीतुं युक्ततया कथमियमव्याप्तिप्रसक्तिरिति वाच्यम् ; यत्पदयोस्तद्वयक्तित्वावच्छिन्नपरत्वे हेतुव्यक्तिभेदेन व्याप्तिभेदः स्यादिति तयोर्यद्रूपाश्रयपरत्वावश्यकतया उक्ताव्याप्तेर्निराबाधत्वात् । यत्पदार्थे हेतुतावच्छेदकसम्बन्धेन वृत्तित्वविवक्षणे संयोगेन प्रमेयहेतुकस्थलेऽव्याप्त्यप्रसक्तेरुक्तस्थलानुसरणम् । अव्याप्त्यापत्तेरिति । हेत्ववृत्त्यधिकरणत्वाप्रसिद्धेरिति भावः । घटाभावान्यो घटाभावादित्यादावतिव्याप्तेरुपलक्षणमेतत् । तेन व्यतिरेकित्वहेतुवृत्तित्वोभयाभावस्य हेत्वधिकरणतायां विवक्षणान्न दोषः । प्रमेयत्वावच्छिन्नाधिकरणतायाः केवलान्वयित्वेन तत्र व्यतिरेकित्वाभावप्रयुक्तोभयाभावसत्त्वादिति परास्तम् । तदापत्तरिति । अत्र यद्यपि स्वनिष्ठाधेयत्ववृत्तित्व-स्वभिन्न
आलोकप्रकाशः प्रत्यक्षकारणीभूतस्वात्यन्ताभावप्रतियोगिनि वा घटादौ चातिप्रसङ्ग इति परास्तम् । वढेर्दाहकारणतावच्छेदकं वह्नित्वम् , प्रागभावनिष्ठं घटकारणतावच्छेदकं तद्वयक्तित्वम् , स्वात्यन्ताभावनिष्ठं प्रत्यक्षकारणतावच्छेदकं विषयत्वं तद्वयक्तित्वं वेत्यभावत्वस्य कारणतानवच्छेदकत्वादुक्तदोषानवकाशात् । मूले-अपरिहारैवेति । तथा च तृतीयकल्पोऽप्यसाधुरेवेत्याशयः । अतिरिक्ततापक्षे शङ्कते-न चेति । अत्रेतिशब्दस्य पूर्ववाक्यस्थानुपूर्वी विशिष्टोऽर्थः । तस्य वाच्यार्थोक्तावन्वयः । ण्यत्प्रत्ययस्य प्रामाण्यमर्थः । तस्य च नअर्थाभावे तस्य चाश्रयतासम्बन्धेन धात्वर्थेऽन्वयः ।
For Private And Personal Use Only