________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका (३)कन च हेत्ववृत्तित्वेन अधिकरणताया विशेषणानाव्याप्तिरिति *वाच्यम् * एवं सति प्रमेयादिरूपसद्धताकव्याप्तेः, प्रमेयावृत्त्यधिकरणत्वाप्रसिद्धः।
(४) *न च* हेतुनिष्ठाधेयतानिरूपिताधिकरणतायामेव हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशान्नोक्तरीत्याऽव्याप्तिरिति वाच्यम् * एवमपि वह्निमान् धूमाधिकरणत्वादित्यादापव्याप्तेरपरिहारात् ।
(५) ॐन च* वह्नित्वाद्यवच्छिन्नप्रतियोगिताकवद्याद्यभावस्योक्तरीत्या हेतुसामानाधिकरण्येऽपि नाव्याप्त्यवकाशः; प्रमायां हेतुमद्विशेष्यकत्वविशेषणस्याने वक्ष्यमाणतया हेतुमद्विशेष्यकतादृशसाध्याभावप्रकारकप्रमाया अप्रसिद्धत्वादिति वाच्यम् ; * तथापि कपिसंयोगादिसाध्यकसद्धेतौ तादृशप्रमामादायाव्याप्तेर्दुरित्वात् ।
(६) ॐन च* यनिष्ठाधेयतानिरूपिता यनिरूपिता च या अधिकरणता, तद्ववृत्तित्वस्य यत्समानाधिकरणपदेन विवक्षणान्न कोऽपि दोष इति
नूतनालोकः अग्रे वक्ष्यमाणतयेति । हृदो वह्नयभाववान् घटत्वेन वह्नयभाववांश्चेति समूहालम्बनमादायाव्याप्तिवारणार्थमित्यादिः । तादृशप्रमामादायेति । अव्याप्यवृत्तित्वज्ञानविरहदशायां तस्या विरोधित्वादित्याशयः। यनिष्ठाधेयतानिरूपितेति । अधिकरणतायां प्रथमतृतीयकल्पीये विशेषणे घटयित्वाऽयं परिष्कारः। अत्रावेयतेति स्वरूपकीर्तनमात्रम् , तत्त्वेन निवेशे प्रयोजनाभावात् , अधिकरणतात्वेनाधिकरणतानिवेशाद् द्रव्यत्वादौ साध्ये संयोगेन प्रमेयादेहेतुत्वे प्रमेयत्वादिनिष्ठां प्रमेयत्वाद्यवच्छिन्नाधेयतावच्छेदकतामादाय नाव्याप्तिप्रसक्तिः । धूमाधिकरणत्वनिष्ठाधेयत्वनिष्ठेत्याधेयताविशेषपरिचायकमेव,
आलोकप्रकाशः भावभिन्नत्वाभावान्न दोषः । न चैवमपि चैत्रादिवृत्तित्वविशिष्टो यो बाधनिश्चयाभावः, तदभाववद्भेदस्य विशिष्टबाधनिश्चयाभावरूपस्य शुद्धबाधनिश्चयाभावानतिरिक्ततया .कारणत्वादावभिन्नत्वाच्च तत्प्रतियोगित्वमादायासम्भवो दुरुद्धर एवेति वाच्यम् । यद्धर्मावच्छिन्नप्रतियोगिताकाभावत्वं साध्यवत्ताज्ञानकारणतावच्छेदकम् , तद्धर्मवत्त्वस्य स्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नसाध्यवत्ताज्ञानकारणताकधर्मवत्त्वपर्यवसितस्य विवक्षणादनुपपत्यभावात् । एतेन प्रतिबन्धकत्वस्येदृशत्वे दाहकारणीभूतवह्निरूपाभावप्रतियोगिनि वह्नयभावे घटादिकारणीभूतप्रागभावप्रतियोगिनि
For Private And Personal Use Only