________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता ताकाधिकरणत्वं विवक्ष्यते, तश्च न हृदस्येति वक्तुं युक्तम् । आधेयताया आधेयरूपत्वे लाघवरूपयुक्तस्तौल्यान्निरूप्यताया अप्याधेयतारूपत्वस्य स्वीकर्तव्यतया उक्तदोषापरिहारात्। एवमाधारत्वस्याधाररूपतया गुणशून्यत्वादिसाध्यके भावभिन्नत्वादिहेतावव्याप्तिः । तत्र भावभिन्नत्वादिनिरूपिता या पटत्वाभावादिनिष्ठाधिकरणता, स्वात्मकपटत्वाभावाधिकरणस्य घटादेरपि तदाश्रयत्वेन घटादिवृत्तेर्गुणात्मकसाध्याभावस्यापि लक्षणघटकत्वात् । नहि श्राधेयताया आधेयरूपत्वेऽप्याधारता परमतिरिच्यते, सैव हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वेन विशिष्यते च। तथा च नोक्तरीत्याऽव्याप्तिप्रसक्तिरिति वक्तुं युक्तम् , विनिगमकाभावात्। वह्निमान् धूमाधिकरणत्वादित्यादौ कालिकसम्बन्धावच्छिन्नहेत्वधिकरणत्वाव्यावृत्तश्च । तस्य स्वरूपसम्बन्धेन ह्रदवृत्तित्वेन वृत्तित्वस्य च स्वाश्रयाधिकरणत्वाभिन्नत्वेन हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वानपायात् । तयोरतिरिक्तत्वेऽपि वह्निमान धूमादित्यादौ धूमनिष्ठाधेयत्वाधिकरणतां धूमनिष्ठामादायाव्याप्तिरपरिहारैवेति ।
नूतनालोकः गुणात्मकस्य तस्य कथं लक्षणघटकत्वमिति वाच्यम् , पटत्वाभावाधिकरणपरमाणौ एकत्वादिगुणस्य व्याप्यवृत्तितया तस्य लक्षणघटकत्वसम्भवात् । अत एव तत्संग्राहक घटादेरित्यादिपदम् । नोक्तरीत्याऽव्याप्तिरिति । धूमनिष्ठाया धूमत्वावच्छिन्नाधेयत्वाधिकरणतायाः स्वरूपसम्बन्धावच्छिन्नत्वेन संयोगसम्बन्धानवच्छिन्नत्वादिति भावः ।
आलोकप्रकाशः अनन्यथासिद्धत्वानिवेशेन लाघवादिति वाच्यम् ; विशेषणज्ञानादिरूपकारणाभावविधया प्रतिबन्धकाभावप्रयोजकस्य वह्निज्ञानाभावस्यापि वह्नयादिमत्ताज्ञानप्रयोजकतया तत्प्रतियोगिनो घटत्वेन वह्नयभाववान् पर्वत इत्यादिज्ञानस्य कथञ्चित् साध्यवत्ताज्ञानरूपकार्यप्रयोजकाभावप्रतियोगितया, प्रतिबन्धकसम्पादकतया, कार्याभावप्रयोजकतया चासम्भवापातादित्याशयः। षष्ठीतत्पुरुषभ्रमवारणाय मूले भूतपदोपादानम् । तत्पुरुषाश्रयणे तु विशेषणशानादिविधया साध्यवत्ताज्ञानकारणस्य साध्यज्ञानस्याभावप्रतियोगिनो घटत्वेन वह्नथभाववान् पर्वत इत्यादिज्ञानस्यापि प्रतिबन्धकल्वापत्त्या असम्भवो बोध्यः । अभावपदानुपादाने विशेषणज्ञानविधया कारणीभूतो यो विशेषणज्ञानाभाववद्भेदो विशेषणज्ञानात्मकः, तत्प्रतियोगित्वस्य विशेषगज्ञानाभाववत्यां यत्समानाधिकरणसाध्याभावप्रमायामपि सत्त्वादसम्भवः । अभावपदोपादाने तु निरुक्तभेदस्य विशेषणज्ञानात्मनो
For Private And Personal Use Only