________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका- तत्प्रकाशटिप्पण्योपबृंहिता
४९
नूतनालोकः
भक्तिर्यस्येतिवद् व्यापकं प्रतियोगिता यस्येति
केति । दृढभक्तिरित्यादौ दृढं विग्रहः । व्यापकमिति सामान्ये नपुंसकम् । अन्यथा " न कोपधायाः” इति निषेधेन 'पाचिकाभार्य' इत्यादाविव पुंवद्भावो न स्यादिति बोध्यम् । न च हेतुतावच्छेदकताघटकसम्बन्धावच्छिन्न स्वावच्छेदकत्वसम्बन्धेन हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मनिष्ठप्रतियोगिता कभेदवत्त्वविवक्षणेनैवोपपत्तौ व्यापकताघटितपरिष्कारो व्यर्थः, स्वं प्रतियोगिता इति वाच्यम्, एवमपि घटपटवृत्तित्व- चतुर्थक्षणवृत्तिध्वंसप्रतियोगित्वाभ्यामुपलक्षितस्य कालिकसम्बन्धेन संयोगभिन्नत्ववतः समवायेन
आलोकप्रकाशः
For Private And Personal Use Only
सामानाधिकरण्यस्य यावत्समुदायघटकतावच्छेदकेषु विवक्षणान्न दोष इति वाच्यम्; तथापि पृथिवी द्रव्यादिरिति वाक्यस्य प्रामाण्यापत्तेरिति चेन्न; उद्देश्यतावच्छेदकव्याप्यत्वस्य घटकतावच्छेदकत्वेनाभिमतधर्मविशेषणत्वस्वीकारेणोक्त्तापत्त्यनवकाशात् । उद्देश्यतावच्छेदकव्याप्यत्वं चोद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सत्युद्देश्यतावच्छेदकसामानाधिकरण्यम् । तेन पृथिवी पृथिव्यादिरित्यादिवाक्यस्य प्रामाण्यपत्तिरित्याहुः । परे तु तदादित्वं तत्पर्याप्त समुदायत्वाश्रत्वम्, समवाय आदिर्यस्येत्यत्र षष्ठ्याः पर्याप्तत्वार्थकत्वात् । एवञ्च समासघटकादिपदस्य समवायवृत्तिसमुदायत्वपर्यायाश्रये लक्षणा । तच्च समवायस्वरूपोभयम् । उद्देश्यतावच्छेदकपदसमभिव्याहारस्थले उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव भानात् पृथिवीघटजलादिरित्यादिर्न प्रयोगः । विभागवाक्ये धर्मेषु परस्परसामानाधिकरण्यस्य, धर्मिषु स्वाभाववत्त्वसम्बन्धेन धर्माणां वा भानात् पृथिवीघटनीलघटादिरित्यादिर्न विभागवाक्यप्रयोगापत्तिः । नीलघटत्वे घटत्वासामानाधिकरण्यस्य, नीलघटे स्वाभाववत्त्वसम्बन्धेन घटत्वस्य वा बाधादित्याहुः । प्रकारान्तरं ग्रन्थान्तरादवसेयम् । दुर्द भक्तिरिति । अत्र दृढा भक्तिरिति विग्रहे दोषस्तु रघुवंशे द्वादशसर्गे - "दृढभक्तिरिति ज्येष्ठे" इति श्लोकव्याख्यायामनुसन्धेयः । पाचिकाभार्य इति । पचतीति पाचिका ण्वुल् "युवोरना कौ” इत्यादेशे यापि " प्रत्ययस्थात् " इतीत्वे पाचिकेति रूपम् । उपपत्ताविति । समवायेन स्वरूपेण वा घटपटवृत्तित्वसंयोगत्वोभयवतोऽप्रसिद्धया प्रत्येकं तादृशसम्बन्धमादायोक्ताव्याप्त्यप्रसक्तेरिति भावः । हेतुत्व इति । पूर्वोक्तान्यतरत्वमेवात्र साध्ये बोध्यम् । प्रसिद्धेति । उभयत्रापि प्रसिद्धत्वं पर्याप्त्यधिकरणघर्मवत्त्वविशेषणं बोध्यम्, घटभूतलसंयोगादिकमादाय भूतलादौ व्यभिचारवारणाय घटपटवृत्तित्वेति । भूतलादिसाधारण त्रित्वत्रिपृथक्त्वादिकमादाय तद्दोषवारणाय चतुर्थक्षणवृत्ति
७