________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
' व' रनमालिका
चाभेदसम्बन्धेन समानपदार्थघटकाधिकरणत्वादावन्वयः । अथवा समानमधिकरणं यस्येति प्राथमिकविग्रहः । यस्य समानाधिकरणमिति द्वितीयो विग्रहः । अन्यत्सर्व पूर्ववत् ।
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकः
अवकुष्टः कोकिलया, परिक्लान्तोऽध्ययनाय, निष्क्रान्तः कौशाम्ब्या इत्यादिसमासाघटकपदघटितवाक्यैरेव तत्तत्समासार्थप्रत्यायनात् । सु-जन-सु, अति-वेला-अम् इत्याद्यलौकिक विग्रहाणां सम्भवेऽपि तेषामर्थबोधस्वरूप योग्यत्वाभावात् । अर्थविवक्षानुसारेणैव विग्रहवाक्यस्य कल्पनीयतयाऽर्थाविशेषे विग्रहवाक्यभेदस्य कल्पयितुमशक्यत्वाच्च । न च निषादस्थपत्यधिकरणसिद्धान्तविरोधः शङ्कयः; कूटं दक्षिणेति वाक्यविहितायाः " कूटन्तु निषादानां स्वम्” इति निषादधनत्वेन बोधितस्य कूटस्य दक्षिणायाः षष्ठीतत्पुरुषपक्षेऽनुपपत्त्या तत्र कर्मधारयस्यैवाश्रयणीयत्वादिति चेन्न; यत्र स्वघटकपदार्थस्य विशेष्यतया स्वघटकपदानां स्वोत्तरोत्पत्तियोग्यविभक्त्यर्थवदन्तर्भावेण लक्षणां विना सामानाधिकरण्यञ्च तत्र कर्मधारयत्वम् । तदन्तर्भावेण लक्षणया सामानाधिकरण्ये तु तत्पुरुषत्वमिति विभागसम्भवात् । विभागोऽयं न्यायकौस्तुभे स्पष्टः ।
ननु यस्य समानमिति प्राथमिकविग्रहाङ्गीकारे यदसमानाधिकरणेत्यादौ यत्समानाधिकरणपदेन नञः समासे यत्पदात् पूर्वमेव ननिपात आवश्यकः, नमिति सूत्रे नन एव प्रथमान्ततया निर्देशेन तस्यैवोपसर्जनत्वात् । घटानधिकरणमित्यादाविव सम्बन्धिकोत्तरपदघटितसमुदायेन समासे नत्रो मध्यनिवेशस्य साधुत्वेऽपि यदसमानाधिकरणमित्यादौ यत्समानभिन्नाधिकरणमित्येव बोध्येत, न तु यत्समानधिकरणभिन्नमिति विवक्षितार्थः, समानाधिकरणपदस्योत्तरपदत्वाभावादित्यत आह-अथवेति ।
आलोकप्रकाशः
"
यत्र स्वघटकेति । विशेष्यतेत्यन्तेन पञ्चमूलीत्यादिव्यावृत्तिः । तत्र समाहारद्विगौ उत्तरपदस्य पञ्चाभिन्नमूलसमाहारलक्षकतया पञ्चपदमूल पदयोर्विभक्त्यर्थावच्छिन्नलक्षणां विनैव समानाधिकरणत्वेऽपि यदन्तर्भावेण सामानाधिकरण्यम् । तस्य समासघटकपदार्थस्य मुख्यविशेयत्वाभावात् विशेष्यतेत्यस्य तादृशविशेष्यत्वार्थकत्वात् । एवं बहुव्रीहावपि तद्वयावृत्तिर्बोध्या । न च तत्रोत्तरपदस्यैवैकदेशान्वयप्रसङ्गभयेन विशिष्टार्थकत्वं वाच्यमिति तादात्म्यसम्बन्धावच्छि न्नैकपदप्रयोज्यप्रकारतानिरूपितविशेष्यता प्रयोजकत्वरूपं सामानाधिकरण्यं नापरपदस्येत्यतिव्याप्ति
For Private And Personal Use Only