________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता
आलोकप्रकाशः प्रसक्तिरेव नास्तीति वाच्यम् ; तात्पर्यग्राहकस्यापि कथञ्चिच्छाब्दबोधीयविषयताप्रयोजकत्वेन तत्प्रसक्तः । नीलरूपसक्तस्य नीलपदस्य समवायेन नीलरूपविशिष्टलक्षणयैव घटादिपदसामानाधिकरण्यमिति नीलघट इत्यादिकर्मधारयेऽव्याप्तिवारणायोत्तरदले स्वोत्तरोत्पत्तियोग्यविभक्त्यर्थावच्छिन्ननिरूपितत्वेन लक्षणा विशेषिता । स्वोत्तरोत्पत्तियोग्यत्वञ्च स्वप्रकृतिकत्वेनानुसन्धीयमानत्वम् , स्वोत्तरत्वेन शास्त्रसिद्धत्वं वा। न चोक्तरीत्या तत्पुरुषस्य कर्मधारयत्वापत्तियारणेऽप्यलुक्समासे पूर्वपदलक्षणाया अनावश्यकतया वृत्त्येकदेशेऽभेदान्वयतात्पर्येण विरूपाया दास्याः पुत्रः, शुक्ले कण्ठेकालः, गहने वने चर इत्यादिप्रयोगापत्तिदुर्वा रैव । एकार्थीभावाभ्युपगमे त्वेकदेशतया तत्र तत्र पदार्थान्तरान्वयायोगान्न तादृशप्रयोगापत्तिरिति वाच्यम् , अनन्ताप्रामाणिकशक्तिकल्पनापेक्षया सविशेषणानामित्यादिवार्तिकस्य विधायकताया एव लाघवेन कल्पयितुमुचितत्वात् । वृत्त्येकदेशपदार्थे प्रतियोगिभिन्नं यत् कारकान्यत् , तदन्वये आकाङ्क्षानुपगमाच । अत एव
प्रतियोगिपदादन्यद्यदन्यत् कारकादपि ।
वृत्तिशब्दैकदेशेन न तस्यान्वय इष्यते ।। इत्युक्तमभियुक्तैरिति । अधिकमन्यत्रानुसन्धेयम् । केचित्तु राजपुरुष इत्यादिकस्तु तत्पुरुषो न पुरुषेषे पूर्वपदलक्षितराजसम्बन्धिनस्तादात्म्येनान्वयबोधकः, समासविग्रहयोस्तुल्यार्थकत्वहान्यापत्तेः । परन्तु राजसम्बन्धस्यैव । अत एव राजपुरुष इत्यादौ पूर्वपदस्य षष्ठ्यर्थसम्बन्धे लक्षणेति मणिकक्तिरपि सङ्गच्छते । निपातस्थल इव समासस्थलेऽपि आकाङ्क्षावैचिच्यान्नामार्थयोर्भेदान्वयः स्वीक्रियते । एतेन राजसम्बन्धिनि लक्षणाभ्युपगमे राशीदासीति तत्पुरुषे समानाधिकरणपुंवद्भावापत्तिः । वृत्तेः पूर्वं यत्र सामानाधिकरण्यम्, तत्रैव पुंवद्भाव इत्युक्तौ मृगीव चपला मृगचपलेत्यादौ तदनुपपत्तिः । तत्र समासे मृगशब्दस्य सदृशलक्षणया सामानाधिकरण्यसत्त्वेऽपि विग्रहे तदभावात् । न च वृत्तेः पूर्वं यत्र समानविभक्तिकत्वम् , तत्रैव पुंवद्भाव इत्युक्तौ न काप्यनुपपत्तिरिति वाच्यम् ; समासार्थप्रतिपादकवाक्यस्यैव विग्रहवाक्यत्वेन समासार्थाविशेषे तत्पुरुषकर्मधारयोर्विग्रहवाक्यवैलक्षण्यस्यैव वक्तुमशक्यत्वादिति परास्तम् , राशीदासीत्यादावुक्तरीत्या सामानाधिकरण्यस्यैवाप्रसक्तरित्याहुः । एतन्मते
यदीयेन सुबर्थन युतो यद्बोधनक्षमः ।
यः समासस्तस्य तत्र स तत्पुरुष उच्यते ॥ इति तत्पुरुषलक्षणम् ,
For Private And Personal Use Only