________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते ।
वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ इति च । न चैकार्थीभावाभ्युपगमेऽपि द्वन्द्वोपात्तस्यैकदेशत्वाभावात्तत्र पदार्थान्तरान्वयो दुर्वारः, तथा चान्वाचयस्थलेऽपि द्वन्द्वप्रसङ्ग इति वाच्यम् , पुष्पवन्तादिपदोपात्ते चन्द्रमसि शीतकिरणत्वान्वयतात्पर्येण प्रयुक्तस्य पुष्पवन्तौ शीतकिरणावित्यस्य साधुतावारणाय धर्मद्वयावच्छिन्नैकशक्तिमतः पदस्य एकधर्मावच्छिन्ने स्वार्थेऽन्वये सत्यसाधुत्वावधारणात् । न च राजपुरुष इत्यादौ राजपदं राजसम्बन्धिलाक्षणिकम् । अन्यथा राजपदार्थस्य पुरुषेऽभेदान्वयो न स्यात् , नामार्थयो.देनान्वयस्याव्युत्पन्नत्वात् । नहि निपातस्थल इव समासस्थलेऽपि तादृशव्युत्पत्तेः सङ्कोचः, दृष्टान्तासिद्धेः। घटो न पटः, चन्द्र इव मुखमित्यादौ पटचन्द्रपदादेः पटचन्द्रादिप्रतियोगिके भेदादिमति लक्षणोपगमात् । नापि लुप्तषष्ठीस्मरणेन निर्वाहः, षष्ठीलोपमजानतोऽपि बोधात् । अत एव तत्पुरुषस्य पूर्वपदलाक्षणिकतया कर्मधारयस्य च सर्वशक्ततया तदभावेन तत्पुरुषात् कर्मधारयो लघीयानित्याशयेन निषादस्थपत्यधिकरणसिद्धान्तोऽपि सङ्गच्छते । एवञ्च ममाप्येकदेशान्वयभियैव न सुन्दरस्य राजपुरुष इति प्रयोग इति सविशेषणानामिति वार्तिकं विनैव निर्वाह इति वाच्यम् , एवं सति वृत्तिविग्रहयोः समानाकारकानुभवजनकत्वभङ्गप्रसङ्गात् । न च तादृशनियमे मानाभाव इति तादृशलक्षणास्वीकारो निराबाध एव, उक्तानुभवजनकत्वानुभवस्य सविवादत्वात् , सामान्यनियमे तत्पुरुषान्यत्वस्य प्रवेशे क्षत्यभावाच्चेति वाच्यम् ; एवमपि राजपुरुष इत्यादितत्पुरुषस्य कर्मधारयत्वापत्तेरपरिहारात्, समस्यमानयोः सामानाधिकरण्ये कर्मधारयत्वात् । न च यत्र समासपूर्वदशायामभेदान्वयस्तत्र कर्मधारयः, यत्र तद्दशायां भेदान्वयस्तत्र तत्पुरुष इति व्यवस्थया नेयमापत्तिरिति वाच्यम् , सुजन-दुर्जन-अतिवेल-अवकोकिल-पर्यध्ययन-निष्कौशाम्बीत्यादिनित्यसमासस्थले लौकिलविग्रहस्याभावेन वृत्तेः पूर्व स्वघटकपदैरन्वयबोधासम्भवेन यथोक्तव्यवस्थाया वक्तुमशक्यत्वात् । तत्र शोभनो जनः, दुष्टो जनः, अतिक्रान्तो वेलाम् ,
आलोकप्रकाशः पुष्पवन्तादिपदेति । अकारान्तमपि पुष्पवन्तपदम् , “रविशशिनौ पुष्पवन्तौ” इति नाममालोक्तेः।
For Private And Personal Use Only