________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च रत्नमालिका वा बोधः। समासवाक्ये च यत्पदेन तत्तद्विभक्त्यन्तार्थविशिष्टं लक्ष्यते । तस्य
नूतनालोकः तत्तद्विभक्त्यन्तार्थविशिष्टं लक्ष्यत इति । नामार्थयोरिति व्युत्पत्तेरिति भावः । यत्तु “समर्थः पदविधिः" इति सूत्रेण एकार्थीभावरूपसामर्थे सत्येव समासविधानेन समासशक्तेरावश्यकतया यत्पदलक्षणाभ्युपगमो निरर्थक इति वाच्यम् ; तेन सूत्रेणाकाङ्क्षादिवशात् परस्परान्वयबोधकत्वात्मकव्यपेक्षारूपसामर्थ्य एव समासविधानेन समुदायशक्तौ मानाभावात् । अथ समासे एकार्थीभावरूपसामर्थ्यानभ्युपगमे राजपुरुष इत्यादिसमासैकदेशे राजादिपदार्थे विशेषणान्वयो दुर्वारः, तथा च सुन्दरस्य राजपुरुष इत्यादिप्रयोगप्रसङ्गः । तथा हि-राजपदोपस्थापितो राजा स्वस्वामिभावसंसर्गेण भेदेनापि पुरुषेऽन्वेति, निपातार्थस्येव समासावयवार्थस्यापि प्रातिपदिकार्थे व्युत्पत्तिवैचित्र्येण भेदान्वयस्वीकारात् । यद्वा लुप्तषष्ठीस्मरणजन्यपदार्थोपस्थितिसहकारेण विग्रहवाक्यादिव समासादपि विभक्त्यर्थप्रकारक एवान्वयबोधः। तथा च सुन्दरं दधीत्यादौ लुप्तविभक्तिकदध्यादिपदार्थस्य दध्यादेरिव समासघटकराजादिपदार्थस्यापि विशेषणयोगो दुरुद्धर इति । न च विवक्षितार्थबोधकत्वसम्भवेऽपि "सविशेषणानां वृत्तिन, वृत्तस्य वा विशेषणयोगो न" इति वातिकात् सुन्दरस्य राजपुरुष इत्यादिप्रयोगो न साधुरिति वाच्यम् ; यतो वा वार्त्तिकमिदं "पदार्थः पदार्थेनान्वेति, न तु तदेकदेशेन" इति न्यायस्यानुवादकमेव, न तु विधायकम् । अत एव चैत्रस्य नप्तेत्यादाविव देवदत्तस्य गुरुकुलमित्यादावपि पदार्थंकदेशान्वयेऽपि वाक्यसाधुतां न्यायसिद्धां ज्ञापयितुं "भवति वै नित्यसापेक्षस्यापि समासः" इति वार्तिकमप्यनुवादकम् । यदाहुः
बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महगौरवं तस्मादेकार्थीभाव आश्रितः ।। इति ।
___ आलोकप्रकाशः न्यायसिद्धामिति । चैत्रस्य नप्ते त्यादावसमासस्थले एकदेशान्वयोपपत्तये पदार्थः पदार्थेनान्वेति, न तु तदेकदेशेनेति । नियम पदार्थे नित्यसापेक्षान्यत्वस्याप्यवश्यं निवेशनीयतया तत एव चैत्रस्य गुरुकुलमित्यादावपि नित्येत्यादिवार्तिकस्य विधायकत्वाभावेऽपि साधुता निर्वहतीति भावः । तटस्थः शङ्कते-न चेति ।।
द्वन्द्वप्रसङ्ग इति । भिक्षामट गामानयेत्यादौ अटानयेति प्रयोगप्रसङ्ग इत्यर्थः ।
For Private And Personal Use Only