________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता ज्याद्धात्वर्थतावच्छेदकफल इव कर्मविभक्त्यर्थस्य । तथा च यन्निरूपिताधिकरणतावद् यनिष्ठाधेयतानिरूपकम् , यनिष्ठाधेयतानिरूपिताधिकरणतावदिति
नूतनालोकः च पदविशिष्टविशेष्यताया एव कार्यतावच्छेदकसम्बन्धतोपेयते । वैशिष्टयश्च स्वप्रयोज्यत्व-स्वभिन्नपदप्रयोज्यप्रकारतानिरूपितत्वोभयसम्बन्धेन । इत्थञ्च न तत्र व्यभिचार इति वाच्यम्'; एवमपि चैत्रस्य गुरुरित्यादौ गुरुत्वे षष्ठयर्थान्वयेन व्यभिचारात् । यत्तु निरुक्तोभयसम्बन्धेन पदविशिष्टपशुत्वादिनिष्ठविशेष्यतासम्बन्धेन शाब्दबोधं प्रति मुख्यविशेष्यतासम्बन्धेनोपस्थितेहेतुत्वमिति रीत्या विशिष्यैव कार्यकारणभावः कल्प्यते । इत्थञ्च ससम्बन्धिकस्थले कार्यकारणभावस्याकल्पनान्न तत्रैकदेशान्वयानुपपत्तिरिति तन्न, गुरुरगुरुरित्यादौ गुरुभेदान्वयापत्तेर्दुरित्वात् । किन्तु, पशुत्वादिविशेष्यकेतरान्वयबोधं प्रति पशुपदजन्यस्वतन्त्र्यपशुत्वाद्युपस्थितिः कारणमिति रीत्या पदविशेषादिकमन्त
र्भाव्य विशिष्यैव कार्यकारणभावः कल्प्यते । इत्थश्च षष्ठयन्तचैत्रादिपदसमभिव्याहारगुरुपदजन्यगुरुत्वोपस्थितियोग्यताज्ञानादिघटितसामग्या चैत्रस्य गुरुरित्यादी गुरुत्वादौ पदार्थान्तरजनने बाधकाभावः। स्वतन्त्रगुरुपदजन्यगुरुत्वोपस्थितेस्तादृशसामयामनन्तर्भावात् । गुरुबोधान्वयबोधप्रयोजकसामग्यामेव तन्निवेशात् । न चैवं पर्यायान्तरजन्यबोधे पशुपदादिजन्यस्वतन्त्रपशुत्वायुपस्थितेर्व्यभिचारेण हेतुत्वमेव न सम्भवतीति वाच्यम्; यथा यत्रैकरूपावच्छिन्ने पदे पदान्तराकाङ्क्षा गृहीता, अन्यरूपेण च वृत्तिर्गृहीता, तत्र शाब्दबोधोत्पत्तिवारणाय तत्तदानुपूर्वीविशेषरूपपदविशेषत्वप्रकारेण गृहीतवृत्तिकपदजन्यतत्तत्पदार्थोपस्थितेर्हेतुता वाच्या, तथा सति तद्धर्मप्रकारेणाकाङ्क्षादिग्रहस्य तद्धर्मप्रकारेण गृहीतवृत्तिकपदाधीनोपस्थितेः परस्परसहकारेणैव फलजनकत्वोपगमेनोक्तापत्तिवारणं सम्भवति । तथा च नानानुपूर्वीप्रकारकपदज्ञानजन्योपस्थितीनामेकविधशाब्दबोधे विभिन्नरूपेण हेतुतया व्यभिचार आवश्यक इति तत्तत्कारणाव्यवहितोत्तरत्वं कार्यतावच्छेदककोटौ प्रवेशनीयम् । तथात्रापि स्वतन्त्रोपस्थित्यव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ निवेशनीयतया व्यभिचारस्य वारणीयत्वादिति । इयञ्च रीतिरवयवगादाधयाँ हेतुग्रन्थे स्पष्टा ।
धात्वर्थतावच्छेदकफल इति । तण्डुलस्य पाकः, ग्रामस्य गमनमित्यादौ धात्वर्थतावच्छेदकफले अवयवविभागप्रभेदरूपविक्लित्यादौ कर्मणि विहिता या षष्ठी तदर्थाधेयत्वस्येवेत्यर्थः।
For Private And Personal Use Only