________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका
नूतनालोकः कतया ससम्बन्धिकान्यत्वस्याप्रसिद्धया विशेषणत्वासम्भवात् । न च ससम्बन्धिकत्वं नित्यसाकाङ्खत्वं स्वोपस्थितिनियतजिज्ञासाविषययत्किश्चित्पदार्थकत्वपर्यवसितं न सार्वत्रिकमिति तदन्यत्वस्य विशेषणत्वं सम्भवत्येवेति वाच्यम् , एवं सति नित्यसाकाङ्क्ष पुत्रत्वापुत्रभेदान्वयतात्पर्येण पुत्रो न पुत्र इत्यादि प्रयोगापत्तेः। न च यदेकदेशोपस्थितौ सत्यां नियमेन यस्याकाङ्क्षा जायते तत्र तस्यैवान्वयः स्वीक्रियते । तथा सति नेयमापत्तिरिति वाच्यम् , एवमपि सामग्रीविरहस्येव कार्यानुत्पादप्रयोजकतया पशुत्वादौ पशुभेदान्वयापत्तेर्नियमस्वीकारमात्रेण वारयितुमशक्यत्वात् । न चेतरान्वयबोधे जिज्ञासारूपाकाङ्क्षा हेतुः । ससम्बन्धिके च प्रतियोगिजिज्ञासा नियतेति तत्र तदन्वयः। अन्यत्र तु पदार्थतावच्छेदके कस्याप्यनाकासिततया नान्वय इत्यत्रैवोक्तनियमतात्पर्यम् । इत्थश्च न काप्यनुपपत्तिरिति वाच्यम् ; अजिज्ञासोरपि शाब्दबोधोदयेन जिज्ञासारूपाकाङ्क्षायाः शाब्दबोधौपयिकत्वस्य मणिकृता निराकृतत्वात्तादृशाकाङ्क्षाविरहस्य पदार्थान्तरानन्वयबीजवायोगादित्यत आह-आकाङ्क्षावैचित्र्यादिति । आकाङ्क्षायाः समभिव्याहारविशेषरुपायाः स्वतन्त्रोपस्थितिसहकारिकत्वतदभावरूपवैचिच्यादित्यर्थः। यद्वा आकाङ्क्षायाः स्वतन्त्रोपस्थितेरितरान्वयबोधं प्रति हेतुत्वतदभावरूपवैचित्र्यादित्यर्थः।
अयं भावः-पशुरपशुरित्यादौ यदा स्वातन्त्र्येण पशुत्वाद्युपस्थितिस्तदा पशुभेदाद्यन्वयः। यदा तु विशेषणतया तदुपस्थितिस्तदा तदनन्वयोऽनुभवसिद्धः । न तावत्तनिर्वाहाय सामान्यत इतरपदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रति मुख्यविशेषतासम्बन्धेनपदजन्यपदार्थोपस्थितेहेतुत्वकल्पनं युक्तम् , इतरत्वस्य केवलान्वयितया विशेषणतया उपस्थिते लोमवल्लाङ्गुलवत्त्वरूपपशुत्वेऽपि पशुत्वत्वरूपेतरपदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधोत्पत्त्या व्यभिचारात् । न
आलोकप्रकाशः पुत्रे चैत्रस्य नायं गुरुरिति प्रयोगानिर्वा हेण षष्ठ्यर्थस्य गुरुत्व एवाश्रयत्वसम्बन्धेनान्वयस्य वक्तव्यतया नअघटितस्थलेऽपि तत्रैव तदर्थान्वयो युक्तः, प्रतियोग्यभावान्वयौ चेति न्यायादिति ।
सहकारिकत्वतदभावरूपवैचित्र्यादित्यर्थ इति । तथा च स्वतन्त्रोपस्थितेराकाङ्क्षानिष्ठफलोपधायकत्वाभावप्रयोजकस्वासमवधानकत्वरूपाकासासहकारित्वं क्वाचित्कमेवेति ससम्बन्धिकस्थले तदकल्पनान्न तत्रैकदेशान्वयानुपपत्तिरिति भावः ।
For Private And Personal Use Only