________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता द्वितीयतृतीययोः षष्ठ्यर्थनिष्ठत्वस्य तादृश्यामाधेयतायामन्वयः, आकाङ्क्षावैचि
नूतनालोकः एतेन यस्य येन वा समानमिति प्राथमिकविग्रहः। यत्पदं यदधिकरणपरम् , समानपदश्च भेदाघटितसादृश्यविशिष्टार्थकमिति निरस्तम् , यत्पदस्य यदधिकरणार्थकत्वे उत्तरत्र तत्पदेन हेतोः परामर्शासम्भवाच्च । एतदेव सूचयितुमुक्तं तत्पदोस्थाप्यतावच्छेदकेत्यादि। नन्वधिकरणत्वादेः समानपदार्थैकदेशतया तत्र पदार्थान्तरान्वयायोगाद् यन्निरूपिताधिकरणत्वादेः कथं लाभः ? न च चैत्रस्य पुत्र इत्यादौ ससम्बन्धिकपदार्थंकदेशे जन्यपुंस्त्वरूपपुत्रत्वघटकजन्यत्वादौ पदार्थान्तरान्वयदर्शनान्निष्प्रतियोगिक एवैकदेशे इतरान्वयोऽव्युत्पन्न इति वाच्यम् , तावताऽप्याधेयत्वे तदप्रतियोगिनो यत्पदार्थस्यान्वयानुपपत्त्यपरिहारादित्याशङ्कथ धात्वर्थतावच्छेदकफलदृष्टान्तेन पदार्थेकदेशे आधेयत्वादावपि षष्ठयर्थान्वयाकाक्षा व्यवस्थापयति-आकाक्षावैचित्र्यादिति । जिज्ञासावैचित्र्यादित्यर्थः । यद्वा ननु पशुरपशुरित्यादौ पशुत्वे पशुभेदान्वयवारणाय पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिरुपगन्तव्या। तथा च कथं पदार्थतावच्छेदकाधिकरणत्वादौ षष्ठयर्थान्वयः । न च चैत्रस्य गुरुरित्वादौ गुरुत्वादौ पदार्थान्तरान्वयदर्शनेन नियमघटकतदेकदेशपदार्थस्य ससम्बन्धिकान्यत्वेन विशेषणीयतया अधिकरणत्वादौ तदन्वये बाधकाभाव इति वाच्यम् ; तथा सति सर्वस्यापि यत्किश्चित्सम्बन्धि
आलोकप्रकाशः परामर्शासम्भवादिति । न च सिद्धान्तेऽप्यविशेषः, यत्पदस्य यन्निरूपितार्थकत्वादिति वाच्यम् ; तत्र यत्पदस्य सामासिकी लक्षणा, अत्र तु न तथेति विशेषात् ।
नव्यमतानुसारेणाकाङ्क्षावैचित्र्यादित्येतद्वयाख्यातुमवतारयति-यद्वेति । पशुरपशुरित्यादावित्यादिपदेन दण्डजन्यो न दण्डजन्य इत्यादेः संग्रहः। घटपदाटत्वस्य किञ्चिद्रूपेणानुपस्थित्या न तत्र पदार्थान्तरान्धयप्रसक्तिरिति घटो न घट इत्याद्युपेक्षा। पशुत्वं नाम लोमवल्लाङ्कलवत्त्वमिति न तस्योपस्थितिः स्वरूपत इति भावः ।।
गुरुत्वादौ पदार्थान्तरान्वयदर्शनेनेति । न च तत्र गुरावेव निरूपितत्वरूपचैत्रसम्बन्धः स्वाश्रयाश्रयत्वसम्बन्धेनान्वीयतामिति वाच्यम् ; तथा सति चैत्रपुत्रादावपि तथा प्रयोगप्रसङ्गात् । चैत्रपुत्रस्य कस्यचिद् गुरुत्वात् , स्वाश्रयपुत्रत्वाश्रयत्वसम्बन्धेन चैत्रनिरूपितत्वस्य सत्त्वाच्च । न च स्वाश्रयीभूतस्वान्वयितावच्छेदकधर्माश्रयत्वसंबन्धेनान्वय इति न कोऽपि दोष इति वाच्यम् ; तथा सति परम्पराया अभावप्रतियोगितावच्छेदकसम्बन्धत्वाभावाच्चैत्र
For Private And Personal Use Only