________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका
नूतनालोकः अधिकरणं यस्येति । एतेन हेतुमद्विशेष्यकत्वलाभाय यत्समानाधिकरणपदस्य प्रमापदेन सह कर्मधारयाश्रयणमयुक्तम् , हेतुमद्विशेष्यकत्वोपादानेऽपि वक्ष्यमाणरीत्या साध्याभावे यत्समानाधिकरणत्वविशेषणस्यावश्यकतया अधिकरणपदस्य यथाश्रुतार्थपरित्यागानौचित्यादिति सूचितम् ।
विग्रह इति । समासार्थवात्पर्यग्राहकवाक्यमित्यर्थः। तेन बहुव्रीहेनित्यसमासतयाsसमस्यमानपदाघटितत्वघटितलक्षणस्य विग्रहस्यासत्त्वेऽपि न क्षतिः। तदुक्तं मणौ
आलोकप्रकाशः विग्रहस्यैव प्रथमं प्रदर्शनादाह-लम्भयितुमिति । विग्रह इत्यनेन सम्बन्ध इति । तथा च यस्य समानमित्यनन्तरम् 'इति वाक्यम् ' इति, यत्समानमितित्यनन्तरम् 'समासस्य' इति च पूरणीयम् । इतिशब्दसमभिव्याहारस्थले तत्पूर्ववाक्यस्य तदानुपूर्व्यवच्छिन्नपरताया नीलो घट इत्याहेत्यादौ क्लप्ततया यस्य समानमिति वाक्यं यत्समानमिति समासप्रतिपाद्यार्थप्रतिपादकमिति बोधः।
एतेनेति । यस्येति निर्देशेनेत्यर्थः । यथाश्रुतार्थपरित्यागेति । वृत्तिनियामकसम्बन्धेन तदधिकरणसम्बन्धिन एव यथाश्रुतार्थत्वादिति भावः।। ___ असमस्यमानपदार्थघटितत्वेति । समासाघटकपदाघटितत्वे सति समासार्थतात्पर्यकत्वे च सति तदधीनलोपप्रतियोगित्व-तदधीनलोपप्रतियोगित्वाभावान्यतरविशिष्टविभक्तिघटितत्वरूपं यल्लक्षणम् , तद्वत इत्यर्थः। चित्रा गौर्यस्येत्यादिवाक्यव्यावृत्तये प्रथमं सत्यन्तम् । चित्रा गौरित्यादिवाक्यव्यावृत्तये द्वितीयम् । स्वस्य, स्वसमानानुपूर्वीकसमासव्यक्त्यन्तरस्य · च वारणाय विशेष्यदलम् । स्वन्तराजपुरुष इति वाक्ये विग्रहत्ववारणाय विभक्तावन्यतरविशिष्टत्वनिवेशः । राज्ञः पुरुष इति विग्रहसंग्रहाय लोपप्रतियोगित्वस्य, कण्ठे काल इति विग्रहसंग्रहाय लोपप्रतियोगित्वाभावस्य चान्यतरकुक्षौ प्रवेशः, कण्ठे कालगृहमिति पष्ठीतत्पुरुषे तद्विग्रहत्ववारणायाभावे समासाधीनत्वनिवेशः, राजपुरुष इति षष्ठीतत्पुरुषस्थले राजसम्बन्ध्यर्थकराजपदघटितराजा पुरुषइति विग्रहे राजपुरुष इति कर्मधारयाधीनलोपप्रतियोगिप्रथमारूपविभक्तिघटितेऽतिव्याप्तिवारणाय लोपे समासाधीनत्वनिवेशः, निवेशे च प्रथमालोपस्य षष्ठीतत्पुरुषानधीनत्वान्न तमादाय दोषः । न चैवमपि दधि द्रव्यमिति कर्मधारयविग्रहेऽव्याप्तिः, विभक्तिघटितत्वाभावादिति वाच्यम् ; विभक्तिघटितत्वस्थाने विभक्तिघटितत्व-शास्त्रान्तरविहितलोपकविभक्तिप्रकृतिघटितत्वा
For Private And Personal Use Only