________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नतनालोकटीका तत्प्रकाशटिप्पण्योपहिता
आलोकप्रकाशः द्विः क्रियाकरणे न निरुक्तं पौनःपुन्यमिति न तत्र तथा प्रयोगः । नमनोत्तरत्वादिकञ्च तत्समानकर्तृकत्वगर्भम् । नातः पुमन्तरीयनमनोत्तरत्वादिकमादायातिप्रसङ्गः। गुरुपदनलिनमिति द्वितीयान्तपदप्रतिपाद्यस्य तत्कर्मकत्वस्य णमुलन्तोपस्थाध्यासु सर्वासु क्रियास्वन्वयो व्युत्पत्तिवैचियात् । यद्वा नमनविशिष्टनमनविशिष्टत्वं णमुलोऽर्थः । वैशिष्टयं चोभयत्रापि स्वाव्यवहितोतरत्व स्वसमानकर्तृकत्व स्वसमानकर्मकत्वैतत्त्रितयसम्बन्धेन । इत्थञ्च न णमुलथैकदेशे द्वितीयार्थान्वयक्लेशः । तेन यत्र क्रमेण मातापितरौ नत्वा गुरुपदं नमति तत्र न तथा प्रयोगः । पौनःपुन्यविशिष्टनमनस्य चानन्तर्यरूपापरणमुलथे, तस्य वितन्यत इति तनुधात्वर्थे चान्वयः। वितन्यत इति । विस्तार्यत इत्यर्थः । मयेति शेषः । स्वकृतस्य स्वेनैव वितननं न प्रायशो दृष्टचरमतस्तत्र निमित्तमाह-प्रीत्येति । प्रीतिः शिष्यादिविषयकप्रेम । तात्पर्यानवबोधनिमित्तकशिष्यादिक्लेशपरिजिहीर्षेति यावत् । तया हेतुना । अथ च प्रीतिः शिष्यादीनां स्फुटतरार्थावबोधनिमित्तकः सन्तोषः, तया तदर्थम् । अध्ययनेन वसतीत्यादिवत् फलात्मकहेतौ तृतीया । न चेति । अत्र “न चेत्यनेन 'न च' घटितानि वाक्यानि विवक्षितानि । नचानां रत्नानि 'न च' रत्नानि । उत्कृष्टानि 'न च' घटितवाक्यानीत्यर्थः । "रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमरः । 'न च' रत्नान्येव रत्नानि मणय इति श्लिष्टरूपकम् । रत्नानीव 'न च' रत्नानीति श्लिष्टोपमा वा । मालैव मालिका । स्वार्थ कः । 'न च' रत्नानां मालिका पङ्क्तिरेव मालिका सक् । तस्या मालिकेव मालिकेति वा । प्रथमे श्लिष्टपरम्परितरूपकम् । द्वितीये श्लिष्टपरम्परितोपमा। तयोरत्र सन्देहसङ्करः। परम्परितोपमा यस्तीति चित्रमीमांसायां स्पष्टम् । तस्याः । कोऽपीति । अल्प इति बाह्योऽर्थः । आन्तरस्तु अतिमहानिति ।
नूतनेति । नूतनः अपूर्वः, आलोकः अर्थप्रत्यायको व्यापारो व्याख्यानरूपः, आलोक्यते ज्ञायते अर्थोऽनेनेति व्युत्पत्तेः । स एवालोकः प्रभा, आलोक इव स इति वा प्रभाया अपूर्वत्वमदृष्टपूर्वत्वम् । व्याख्यानस्य तु परानुलिखितार्थबोधकत्वमिति बोध्यम् । यथा केनचिन्मणिकारेण स्वकृतपूर्वाया रत्नमालायाः संस्कारविशेषाधानेनापूर्वप्रभाविशेष उत्पाद्यते, तथा मया स्वकृताया न चेत्यादिवाक्यपङ्क्तेस्तत्तदर्थपर्यालोचनेनापूर्वव्याख्या क्रियत इत्यर्थः । वितन्यत इति वर्तमानसामीप्ये भविष्यति लट् । शिष्टेति । शिष्टाचारपरम्परा अनान्तानां पूर्वपूर्वपण्डितानां प्रयोज्यप्रयोजकमावापन्नतादृशमङ्गलाचरणसमुदायः । तत्परिप्राप्ता तदर्शनानुमिता ग्रन्थारम्भसमयकर्तव्यता ग्रन्थारम्भकालीनसफलकृतिविषयता यस्य तथाभूतमित्यर्थः। अनुमानञ्च-गुरुपादनमस्कारादिकं ग्रन्थारम्भसमयकर्तव्यताकम् , तादृशसमये शिष्टेरनुष्ठीयमानत्वादित्येवंरूपं बोध्यम् ।
For Private And Personal Use Only