________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका
आलोकप्रकाशः श्रीमद्गुरुः । श्रीरघुनाथनामेत्यादाविव मध्यमपदलोपी समासः । मदीयत्वोक्तिर्गुरौ भक्तिबहुमानादिप्रकर्ष द्योतयति । शेषं पूर्ववत् । अथ च श्रीमानिति नित्ययोगे मतुप् । लक्ष्मीवल्लभ इत्यर्थः । स चासौ गुरुः। जगतो गुरुः पिता च । स्मर्यते च-"पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान्" इति । श्रीमान् निरतिशयसार्वज्यसंपन्नः, अतिशायने मतुप । गुरुरादिगुरुः सर्वेषां पिता वा परमेश्वरः । उक्तं हि पातञ्जले ईश्वरं प्रस्तुत्य "तस्य निरतिशयं सार्वज्यबीजम्", "स पूर्वेषामपि गुरुः कालेनानवच्छेदात्" इति । शिवपुराणेऽप्युक्तम्
प्रतिसर्ग प्रसूतानां ब्रह्मणां शास्त्रविस्तरम् । उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् । कालावच्छेदयुक्तानां गुरूणामण्यसौ गुरुः ।
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ।। इतीत्याद्यनेकार्था विवक्षिताः । तथा च 'सर्वदो माधवः' इत्यादाविव प्रकृतश्लेषः । तस्य पदाम्भोजमित्यत्रोपमा, नत्वेत्यस्य तत्साधकत्वात् । पदस्याम्भोजसाम्यं विशिष्टजनोपादेयत्वादिना बोध्यम् ।
__ श्रीमदिति पदाम्भोजविशेषणतयापि योजयितुं शक्यते । अस्मिन् पक्षे श्रीमत्त्वं पूज्यत्वरूपम् । तदतिरिक्तस्यैव सामान्यधर्मतया न तत्प्रयोग उपमाबाधकः, यथा-"भाष्याब्धिः क्वातिगम्भीरः" इत्यादौ ।
_गुरुपदाम्भोजं नत्वेत्युक्तिः पदाम्भोजस्य प्रभावातिशयद्योतनद्वारा कैमुतिकन्यायेन गुरोरपि तद्योतनार्था ।
भूय इति । पौनःपुन्येनेत्यर्थः । भक्तिप्रकर्षानुभावोऽयम् । द्वितीयके प्रगल्भलक्षण इति । "न सामिवचे' इत्यनेन ज्ञापिसोऽत्यन्तस्वार्थिकः कन् । चतुर्दशलक्षणीघटकद्वितीयप्रगल्भलक्षणइत्यर्थः । तस्मिन् विषय इति यावत् । किञ्चिदिति । अल्पमिति वाच्योऽर्थः । अन्यैरनिर्दिष्टमिति व्यङ्गयोऽर्थः । लक्षणे किञ्चिदुच्यत इत्यनेन वचनमिदं न गदाधरीयव्याख्यानरूपम् , किन्तु लक्षणघटकतत्तदर्थप्रयोजनादिविमर्शनरूपमिति प्रकाश्यते । शास्त्रिति । शास्तेति नाम । “शर्मान्तं ब्राह्मणानाम्" इति स्मृतिमनुरुध्य शास्तृशर्मणेत्युक्तम् । व्याख्यायां श्रीमदिति । नाम नाममिति णमुलन्तम् , "आभीक्ष्ण्ये णमुल च" इत्यनुशासनात् । पौनःपुन्यात्मकाभीक्ष्ण्यं णमुलोऽर्थः । तदर्थतात्पर्यग्राहकं द्विवचनम्। पौनःपुन्यं प्रकृतधात्वर्थसजातीयक्रियोत्तरतादृशक्रियानन्तर्यरूपम् । तच्च विशेषगत्वेन प्रकृत्यर्थे नमनेऽन्वेति । तथा च नमनोत्तरनमनानन्तर्यवन्नमनमित्यर्थः ।
For Private And Personal Use Only