________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
श्रीमद्गुरुपदाम्भोजं नत्वा भूयो द्वितीयके । प्रगल्भलक्षणे किञ्चिदुच्यते शास्तृशर्मणा ।।
( यत्समानाधिकरणपदविवरणम् ) यत्समानाधिकरणेत्यादिलक्षणवाक्यम् । तत्र यस्य समानं यत्समानम् , यत्समानमधिकरणं यस्येति विग्रहः । तत्र प्राथमिकविग्रहवाक्ये तत्पदोपस्थाप्यता
नूतनालोकः श्रीमहुरुपदनलिनं नामं नामं वितन्यते प्रीत्या । 'न च' रत्नमालिकायाः स्वकृतायाः कोऽपि नूतनालोकः॥
( यत्समानाधिकरणपदविवरणस्यालोकः) . शिष्टाचारपरम्परापरिप्राप्तप्रन्थारम्भसमयकर्तव्यताकं गुरुपदप्रणामलक्षणं मङ्गलं समाचरन् समीहितं प्रतिजानीते-श्रीमदिति । विकल्पिष्यमाणानर्थान् लम्भयितुमाहयस्य समानमित्यादि। यस्य समानं यत्समानमिति 'इति विग्रह' इत्यनेन सम्बन्धः ।
आलोकप्रकाशः नत्या गुरूंस्तद्राि तन्नूतनालोकटिप्पणी ।
रामाच्युताख्यैः क्रियते तेन संप्रीयतां शिवः ॥ मूले श्रीमदिति । श्रीमान् विद्याविनयादिगुणसंपन्नो यो गुरुर्विद्योपदेष्टा पिता च, "गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भरे" इत्युभयत्र शब्दार्णवः। अत्र “विभासि नृपभीम” इत्यादाविव शब्दशक्त्या बृहस्पतेरभेदः साम्यं वा तयोर्ध्वन्यते । यद्वा मम गुरुः मद्गुरुः, श्रिया युक्तो मद्गुरुः १. अनेन सि० के० रामन् नम्पियार् , टि. रामवारियर् , के० भन्युतप्पोतुवाक्-एते
महाशया विवक्षिताः।
For Private And Personal Use Only