________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता वच्छेदकतद्वयक्तित्वविशिष्टवाचकयत्पदोत्तरविभक्तनिरूपितत्वं निष्ठत्वं वार्थः । समानपदस्य च अधिकरणम् , आधेयतानिरूपकमाधेयतानिरूपिताधिकरणतावदिति वार्थः। प्रथमकल्पे षष्ठ यर्थनिरूपितत्वस्य समानपदार्थैकदेशाधिकरणत्वे,
नूतनालोकः "बहुव्रीहेर्नित्यसमासत्वेन विग्रहाभावाच । चित्रा गौर्यस्येति वाक्यं बहुव्रीहेरन्यपदार्थकथनाय" इति । नित्यानित्यभेदेन समासद्वैविध्यमुक्तं जयादित्येन
विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु ।
स्वार्थस्याबोधबोधाभ्यां नित्यानित्यौ समासकौ ॥ इति । निष्ठत्वं वार्थ इति । वाकारार्थः प्रकृतेऽन्यतरत्वाश्रयः, द्वयोरेव कल्पयोवैकल्पिकोपादानात् ।
आलोकप्रकाशः न्यतमत्त्वनिवेशेन तद्वारणात् । न चैवमपि कण्ठे काल इति समासेऽतिव्याप्तिः, लोपाभाववद्विभक्तिघटितत्वादिति वाच्यम् ; आनुपूर्वीभेदाभावेनेष्टापत्तेः । यदि च स्वस्मिन् स्वविग्रहत्वव्यवहारो नास्तीति नेष्टापत्तिसम्भवस्तदा तृतीयदलस्थाने प्रातिपदिकसंज्ञाशून्यत्वं निवेशनीयम् , समासस्यैतत्संज्ञानियमान्नातिव्याप्तिः ।
.. चाकारार्थ इति । वाकारद्योत्योऽर्थ इत्यर्थः । चादीनां वाचकतायाः सिद्धान्तविरुद्धत्वात् । वाकारद्योत्यत्वं च स्वनिष्ठलक्षणातात्पर्यग्राहकवाकारकत्वम् । एवञ्च वाकाराव्यवहितपूर्ववृत्तिनिष्ठत्वपदस्य निरूपितत्वनिष्ठत्वान्यतरत्वावच्छिन्ने लक्षणा, वाकारस्तात्पर्यग्राहकः। एवं निरूपितत्वपदमपीति न तद्वैयर्थ्यमिति ।
उपादानादिति । बहूनां कल्पानां समभिव्याहारे अन्यतमार्थकत्वादिति भावः ।
केचित्तु वाकारोऽन्यतरत्ववाचकः। अन्यतरत्वं चान्योन्याभावद्वयावच्छिन्नान्योन्याभाववत्त्वम् । अन्योन्याभावद्वये चानुयोगितासम्बन्धेन समभिव्याहतप्रथमान्तपदार्थयोरन्वयः । ननु जगत एव यत्किञ्चिदन्योन्याभावद्वयवत्त्वेन तदवच्छिन्नप्रतियोगिताकान्योन्याभावाप्रसिद्धिः । अपि च अन्योन्याभावद्वयेऽनुयोगितासम्बन्धेन निरूपितत्वत्वावच्छिन्नस्याधेयतात्वत्वावच्छिन्नस्य चान्वयोपगमे पृथिवीजलोभयं स्नेहवत् गन्धवदित्यादिवाक्यवदुक्तवाक्यस्याप्रामाण्यापत्तिः । निरूपितत्वत्वावच्छिन्नभेदे निष्ठत्वप्रतियोगिकत्वस्य, आधेयत्वत्वावछिन्नभेदे निरूपितत्वप्रतियोगिकत्वस्य च बाधादिति चेन्न; यतो वाकारस्यान्योन्याभावे, अवच्छिन्नप्रतियोगिताकत्वे, आश्रयत्वे च खण्डशः शक्तिः । यत्र वाकारसमभिव्याहृतपदार्थयोद्वित्वम् , तत्र तत्तदन्वितान्योन्याभावयोरव
For Private And Personal Use Only