________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका
साधनपाककालीनघटत्वेन वह्नयभाववान् पर्वत इत्यादि प्रमाया अपिसामान्यान्तर्गततया तस्याश्च फलेच्छासहितकृतिसाध्यताशानसहितसिद्धत्वज्ञानाभावसहितपाकर्मिकेष्टसाधनत्वज्ञानादिरूपेच्छासामग्रीविधया ज्ञानसामान्यं प्रति प्रतिबन्धकत्वागौरवाच ।
न च स्वरूपसम्बन्धरूपावच्छिन्नत्वनिवेशेऽप्यसम्भवः, घटत्वविशिष्टवह्निमानिति ज्ञाननिष्टा या घटत्वेन वह्नयभाववानिति प्रमानिरूपितप्रतिवध्यता, तस्या अपि वह्नित्वघटत्वोभयावच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नतया साध्यवत्ताबुद्धित्वावच्छिन्नत्वानपायादिति वाच्यम् ; साध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रकारताशालिवुद्धित्वावच्छिन्नत्वस्यैवात्र विवक्षणेन तादृशप्रतिवध्यताव्यावृत्तेः।
__ न चैवमप्यसम्भवः, वह्निमत्पर्वतकालीनघटत्वेन वह्नयभाववान् पर्वत इति प्रमाप्रतिवध्यतावच्छेदककोटौ शुद्धवद्वित्वावच्छिन्नप्रकारताया अपि प्रवेशेन तादृशप्रतिवध्यत्वाव्यावृत्तेरिति वाच्यम् ; स्वीयमुख्यविशेष्यतावच्छेदकावच्छिन्नमुख्यविशेष्यतानिरूपितत्वेनापि प्रकारताया विशेषणात्तद्वयावृत्तः ।
नूतनालोकः वह्निमत्पर्वतकालीनेति । स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वनिवेशेनापि प्रतीकारो मा भूदिति वह्निकालीनत्वोपेक्षा । स्वीयेति । वह्निमद् भूतलमिति ज्ञाननिष्ठाया वह्नयभाववद्भूतलसमानकालीनघटत्वेन वह्नयभाववान् पर्वत इति प्रमाप्रतिवध्यताया मुख्यविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारत्वावच्छिन्नतया तद्वयावृत्त्यर्थं मुख्यविशेष्यतायां स्वीयत्वोपादानम् ।
आलोकप्रकाशः मूले-प्रतिबन्धकत्वादिति । न च सामग्र्या एकविशिष्टापरत्वेनैव प्रतिबन्धकतया ज्ञानवैशिष्टयानवच्छिन्नत्वविरहादेव तद्वयावृत्तिरिति वाच्यम् ; फलोपधायकत्वेनैव प्रतिबन्धकत्वस्य कल्पनीयतया तदव्यावृत्तेः। फलोपधायकत्वं च प्रकृते इच्छारूपं यत् फलम् , तदव्यवहितपूर्ववृत्तित्वे सति तत्सामानाधिकरण्यम् । अन्यथा विशेष्टविशेषणभावे विनिगमनाविरहात् प्रतिबन्धकताबाहुल्यप्रसङ्गात् । वक्ष्यमाणस्वरूपस्य ज्ञानवैशिष्टयानवच्छिन्नत्वस्यात्राक्षश्च । व्याख्यायाम् --विशेषणहयोपादानमिति । वस्तुतस्तु तदुपादानं वैकल्पिकमेव, एकतरोपादानेनैव प्रतिबन्धकत्वनिर्वाहादिति बोध्यम् ।
For Private And Personal Use Only