________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
१४५ न चैवमपि भिन्नविषयकशाब्दसामग्र्याः प्रत्यक्षसामग्र्यपेक्षया प्राबल्याद्योग्यताज्ञानविधया तखटकीभूतायां व्यधिकरणधर्मावच्छिन्नवह्नयभावप्रमायां साध्यतावच्छेदकावच्छिन्नप्रकारत्वावच्छिन्नप्रत्यक्षनिष्ठप्रतिवध्यतानिरूपकत्वस्यैव सत्त्वादव्याप्तिरिति वाच्यम् ; प्रत्यक्षमात्रनिष्ठायास्तादृशप्रतिवध्यताया निरुक्तप्रकारत्वावच्छिन्नत्वेऽपि ज्ञानत्वावच्छिन्नत्वाभावात्तद्वथावृत्तः ।
न चैवमपि भिन्नविषयकानुमितिसामग्र्याः शाब्दप्रत्यक्षसाधारणज्ञानत्वघटितधर्मावच्छिन्नं प्रत्येव प्रतिबन्धकत्वात् प्रमेयत्वानुमितिसामग्र्यन्तर्गतां प्रमेयत्वव्याप्यव्यधिकरणधर्मावच्छिन्नवह्नयभाववान् पर्वत इत्यादिप्रमामादायासम्भवो दुर्वार एवेति वाच्यम् ; उत्तेजकाननुगमेन पृथगेव प्रतिवध्यत्वस्य वक्तव्यतया उक्तप्रमायाः साध्यवत्ताज्ञानत्वावच्छिन्नाप्रतिबन्धकत्वात् । इत्थं च प्रतिवध्यतायां स्वरूपसम्बन्धरूपावच्छेद्यत्वनिवेशनमेवोचितमिति चेन्न; असम्भवापत्तेः। संशयोत्पत्तिक्षणे निश्चयवारणाय तं प्रति संशयसामग्याः प्रतिबन्धकत्वात् , साध्याभावप्रमाया धर्मिशानादिविधया तादृशसामग्यन्तर्गतत्वाञ्च ।
नूतनालोकः व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया अनायासेन सामग्रीघटकत्वसम्पादनाय-शाब्देति । प्राबल्यादिति । तदपेक्षया प्राबल्यं च तत्प्रयोज्यकार्यानधिकरणीभूततदुत्तरक्षणवृत्तिस्वप्रयोज्यकार्यकत्वम् । तथा च भिन्नविषयकशाब्दसामग्र्याः प्रत्यक्षप्रतिबन्धकत्वमर्थात् सिद्धयति । ___अत्राट निष्कर्षः-तद्धर्मावच्छिन्नविशेष्यतानिरूपिततद्धर्मसम्बन्धावच्छिन्नप्रकारताशालिप्रत्यक्षं प्रति तद्धर्मसम्बन्धोभयानवच्छिन्नप्रकारतानिरूपिता या मुख्यविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारता तन्निरूपकत्व-तद्धर्मान्यधर्मावच्छिन्नमुख्यविशेष्यतानिरूपकत्वैतदन्यतरवच्छाब्दसामग्री प्रतिबन्धिकेति । पर्वतो घटवान् महानसं वह्निमदिति शाब्दबोधयोः पर्वतो वह्निमानिति प्रत्यक्षाद्भिन्नविषयकत्वनिर्वाहायान्यतरवत्त्वनिवेशः । अन्यत् स्वयमूह्यम् ।
____ ज्ञानत्वघटितधर्मावच्छिन्नमिति । अनुमितिभिन्नसाध्यवत्ताज्ञानत्वावच्छिन्नमित्यर्थः । उत्तेजकाननुगमेनेति । एकत्र प्रत्यक्षं जायतामितीच्छाया अन्यत्र शाब्दं जायतामितीच्छाया उत्तेजकत्वादिते भावः। पृथगेवेति । शाब्दत्वप्रत्यक्षत्वरूपविभिन्नधर्मेणैवेत्यर्थः । धर्मिज्ञानादीत्यादिपदेन विशेषणज्ञानपरिग्रहः ।
For Private And Personal Use Only