________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतन लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता
एव तथात्वेनानुयोगिता विशेषसम्बन्धावच्छिन्नतदवच्छेदकत्वस्य बाधनिश्चयादन्यत्रासत्त्वान्नासम्भवावकाशः । प्रतियोगिता वैशिष्ट्यं च स्वसमानेत्यादि व्यापकतासम्बन्धेन, अधिकरणता अवच्छेदकता चावच्छेदकता सम्बन्धेनेति । अथवा कारणतावच्छेदकसम्बन्धेन स्वावच्छेदकावच्छिन्नाधिकरणे उत्तरक्षणावच्छेदेन विद्यमानाभावीय कार्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताविशिष्टान्यविषयता रूपकार्यतासम्बन्धेन साध्यवत्ताज्ञानत्वव्यापिका या अभावप्रकारता, तद्विशिष्टान्यस्वस्य प्रमा सामान्ये विवक्षणान्न कोऽपि दोषः । प्रतियोगितावैशिष्ट्यं पूर्ववत् । प्रकारतावैशिष्ट्यमनुयोगिता विशेष सम्बन्धावच्छिन्नावच्छेदकतासम्बन्धेनेति । इयमेव रीति वाभास सामान्यलक्षणादावनुसर्तव्येति दिक् ।
अथात्र स्वरूपसम्बन्धरूपं साध्यवत्ताज्ञानत्वावच्छिन्नत्वमेव प्रतिवध्यतायां विवक्षितुमुचितम् । न तु व्यापकत्वरूपम्, तथा सत्यसम्भवापत्तेः । कृतिसाध्येष्ठनूतनालोकः
तादृशविषयत्वाप्रसिद्धेः सामानाधिकरण्यसम्बन्धपरित्यागः । एतत्पक्षे व्यापकतावच्छेदकसम्बन्धात्मक निरूपकत्वस्य वक्ष्यमाणकार्यताविलक्षणस्य वक्तुमशक्यतया तस्या अपि प्रवेशनीयत्वे गौरवादाह - अथवेति । अभावप्रकारतेति । अभावेति प्रकारताविशेषपरिचायकम् । न च विषयताया अपि स्वरूपसम्बन्धरूपतया प्रतियोगिता विशिष्टान्यविषयत्वाप्रसिद्धिः, बाघनिश्चयाभावत्वाद्यवच्छिन्नविषयताया बाघ निश्चयाभावघटोभयत्वाद्यवच्छिन्नविषयत्वानतिरिक्तत्वादिति वाच्यम्, विषयतायाः पदार्थान्तरत्वादित्यभिप्रेत्य द्विमित्युक्तम् । वस्तुतस्तु विषयतायाः पदार्थान्तरत्वे तुल्ययुक्त्या कार्यताया अपि तथात्वमौचित्यावर्जनीयमित्यन्यतर पक्षपातोऽनुचित एवेति ध्येयम् । विषयत्वादीनामतिरित्वे युक्तिरन्यतोऽवगन्तुं शक्यत इति नेह वितन्यते ।
कृतिसाध्येति । कृतिसाध्यज्ञानविधया इष्टसाधनताज्ञानविषया च हेतुत्वसम्पादनार्थं पाके विशेषणद्वयोपादानम्, प्रतिवध्यतायां विषयित्वावच्छिन्नत्वस्यापि निवेशे त्वाह – गौरवाच्चेति । अनाहार्यत्वादेर्निवेशनीयत्वादिति भावः ।
-
For Private And Personal Use Only
१४३
आलोकप्रकाशः
वच्छेदेन विद्यमानाभावप्रतियोगितात्वेन तस्या अपि ग्रहणसम्भवादित्यर्थः । वक्तुमशक्यतयेति । निरूपकत्वस्य प्रतियोगितारूपस्य बाघनिश्चयाभावविषयक साध्यवत्ताज्ञानासाधारण्यादिति भावः । अभिप्रेत्येत्यनेन सूचितमस्वरसमाविष्करोति - वस्तुतस्त्विति ।