________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
'न च' रत्नमालिका भाववान् पर्वत इति प्रमायां सत्त्वादिति वाच्यम् ; एवमपि बाधनिश्चयाभावान्यभेद-तादृशाभावावृत्त्यभावयोरभावमात्राधिकरणकतया अधिकरणस्वरुपयोर्बाधनिश्चयाभावत्वेन कारणतया तत्प्रतियोगिनि घटत्वेन वह्नयभाववानिति शाने प्रतिबन्धकत्वस्यैव सत्त्वादसम्भवापत्तेः ।
न च निरूपकत्वसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापिका या कारणता, अनुयोगिताविशेषसम्बन्धावच्छिन्नतदवच्छेदकत्वस्यैव विवक्षणान्न दोषः, बाधनिश्चयाभावान्यभेदत्वादिना कारणत्वाभावादिति वाच्यम् ; कारणतायाः पदार्थान्तरत्वे कार्यतारूपप्रतिवध्यताया अप्यतिरिक्तस्वादुक्तपरिष्कारस्यानावश्यकत्वात् , स्वरूपसम्बन्धविशेषरूपत्वे तस्या बाधनिश्चयाभावान्यभेदत्वाद्यवच्छिन्नाधेयत्वानतिरिक्ततया तादृशभेदत्वस्यापि तदवच्छेदकत्वाक्षतेस्तद्दोषतादवस्थ्यादिति चेत्, सत्यम् । तस्याः स्वरूपसम्बन्धविशेषरूपत्वेऽपि प्रकृते कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणे तत्पूर्वक्षणावच्छेदेन विद्यमानाभावीयकारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताविशिष्टान्यविषयतारूपत्वविवक्षया बाधनिश्चयाभावत्वाद्यवच्छिन्नाविषयताया
नूतनालोकः मात्राधिकरणकत्वादभावान्येत्येव वक्तुं शक्यम् , तथाप्यभावान्यभेदस्यानन्ताभावाधिकरणकस्याधिकरणात्मकत्वे गौरवादतिरिक्तत्वमेवेत्यभिप्रायेणेत्थमभिहितम् । तत्प्रतियोगिनीति । घटत्वेन वह्नयभाववान् पर्वत इति ज्ञानस्यापि बाधनिश्चयाभावान्यत्वाद् बाधनिश्चयाभावावृत्तित्वाच्चेति भावः ।
अनुयोगिताविशेषेति । अभावीयानुयोगितेत्यर्थः। विवक्षणादिति । प्रतिबन्धकत्वपदेनेत्यादिः । अनावश्यकत्वादिति । अतिरिक्तत्वपक्षे कार्यतायामेव व्यापकत्वस्य शक्यनिवेशनादिति भावः। आधेयत्वानतिरिक्ततयेति । तादृशाधेयत्वस्यापि स्वरूपसम्बन्धविशेषात्मकत्वादिति भावः । तस्याः कारणतायाः। अन्यत्रेति शेषः । तथात्वेन कारणतात्वेन । व्यापकतासम्बन्धेनेति । द्वित्वाद्यवच्छिन्नबाधनिश्चयाभावनिष्ठा या प्रतियोगिता, तदादाना
आलोकप्रकाशः मूले-विषयतारूपत्वविवक्षयेति। उपलक्षणमेतत् , प्रतियोगितादिरूपत्वविवक्षाया अपि सम्भवात् । बाधनिश्चयाभावत्वाद्यवछिन्नविषयताया एवेति । एवकारेण बाधनिश्चयाभावान्यभेदत्वाद्यवच्छिन्नविषयताया व्यवच्छेदः । कार्याधिकरणे आत्मनि बाधनिश्चयाभावान्यभेदो नास्तीति प्रतीतेः सत्त्वेन तस्या निरुक्तप्रतियोगिताविशिष्टत्वात् । व्याख्यायाम् -तदादानादिति । पूर्वक्षणा
For Private And Personal Use Only