________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपहिता
Acharya Shri Kailassagarsuri Gyanmandir
१४१
साध्याभावप्रमा सामान्ये
स्वविषयीभूताभावप्रतियोगितावच्छेदकीभूता ये ये सम्बन्धाः, प्रत्येकं तत्तत्संसर्गक साध्यवत्ताज्ञानत्कव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभाव कूटवत्त्वस्य साध्यवत्ताज्ञाने स्वीय मुख्यविशेष्यतानिरूपितप्रकारतावृत्तिसम्बन्धसंसर्गकत्वस्य वा विवक्षणीयतया सर्वसामञ्जस्यम् । वृत्तित्वं च स्वावच्छिन्नत्वावच्छिन्नप्रतियोगित्वनिष्ठा वच्छेद कताकनिरूपकत्वनिष्टसांसर्गिकविष - यतानिरूपितत्वसम्बन्धेन । वस्तुतस्तु साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकविशिष्टसाध्यवत्ताज्ञानसामान्यप्रतिबन्धकत्वाभाव एव विवक्षणीयः । ज्ञानं च स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्ध संसर्गकत्वेन विवक्षणीयमित्युक्तिस्तु तथाविवक्षायां कथञ्चित् साध्याभावपद सार्थक्यं सम्भवतीत्यभिप्रायेणेति ।
अथैवमप्यसम्भवः, प्रतिबध्यतायाः प्रतिबन्धकस्वरूपतया कस्या अपि तस्याः साध्यवत्ताज्ञानत्वव्यापकत्वासम्भवात्, घटत्वविशिष्टवह्निमान् पर्वत इति निश्चयनिष्ठाया घटत्वेन वयभाववानिति ज्ञानप्रतिवव्यताया अपि प्रतिवध्यतात्वादिना व्यापकत्वादसम्भवप्रसक्त्या यत्किञ्चिद्रूपेण तद्विवक्षणासम्भवात् । स्वावच्छेदकविषयितासम्बन्धेन प्रतिवध्यताव्यक्तेर्व्यापकत्व विवक्षणे पर्वतो वह्निमान् घटत्वविशिष्टवह्निमांश्चेति ज्ञाननिष्ठयोः प्रतिवध्यत्वव्यक्त्योः प्रतिवध्यस्वरूपयोरैक्येन घटत्वेन वह्नयभाववान् पर्वत इति निश्चय निरूपित प्रतिवव्यतावच्छेदकत्वस्य वह्निमत्पर्वतविषयिता सामान्ये ऽप्यक्षतत्वादसम्भवता दवस्थ्यम् ।
न च जन्यतासम्बन्धेन प्रतिबन्धकत्व घटकाभाव एव साध्यवत्ताज्ञानत्वव्याप कत्वविवक्षणान्न दोषः, वह्नचभाववान् पर्वत इति निश्चयत्वावच्छिन्नाभावस्यैवोक्तसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापकतया तत्प्रतियोगित्वाभावस्य घटत्वेन वह्नय
नूतनालोकः
प्रमीयतादृशविषयिताश्रयप्रतियोगितावच्छेदकसम्बन्धतया तद्व्यावृत्तेः । लाघवादाह - साध्यवत्ताज्ञान इति । ततोऽपि लाघवादाह - वस्तुतस्त्विति । कथञ्चिदिति । साध्यतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिता का भावनिवेशे तात्पर्य ग्राहकत्वाभ्युपगमेनेत्यर्थः । तथा विवक्षायां तादृशाभावानिवेशे समवायाद्यवच्छिन्नवह्नयाद्यभावप्रमामादायासम्भवापत्तेः ।
For Private And Personal Use Only
प्रतिबन्धकत्वघटकाभाव एवेति । कारणीभूताभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वरूपत्वादिति भावः । बाधनिश्वयाभावान्यभेदेति । यद्यप्यभावान्यभेदस्याप्यभाव