________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
१२१ भावप्रतियोगित्व-स्वसामानाधिकरण्यैतत्त्रितयरूपम् । प्रागभावानङ्गीकारे तु वध्वंसवृत्तित्वमेव स्ववृत्तिप्रागभावप्रतियोगित्वस्थाने वाच्यम् , तेन नाननुगमः। एवं विरोधिव्याप्यवत्तास्थलेऽपीति शानविशिष्टज्ञानत्वेन प्रतिबन्धकत्वमेवाप्रामाणिक
नूतनालोकः बोध्यम् । प्रागभावानङ्गीकारे विति । अयमाशयः-प्रागभावो नाभ्युपगन्तव्यः, प्रमाणाभावात् । इहेदानी घटप्रागभाव इति प्रत्यक्षस्यासिद्धः। तत्पूर्वत्वतदुत्तरत्वव्यवहारस्तु न तत्प्रागभावकालीनत्व-तत्कालीनप्रागभावप्रतियोगित्वविषयकः, अपि तु तदुत्पत्तिकालीनध्वंसप्रतियोगित्व-तदधिकरणकालध्वंसाधिकरणकालोत्पत्तिकत्वविषयक एव । घटो भविष्यतीति प्रत्यक्षादिश्च वर्तमानकालध्वंसाधिकरणकालवृत्तित्वरूपोत्तरकालीनत्वावलम्बन एवेत्येतादृशव्यवहारादेस्तदसाधकत्वात् । अभावत्वं विनाशित्वसमानाधिकरणं पदार्थविभाजकोपाधित्वाद् भावत्ववदित्यस्याप्रयोजकत्वात् । न चोत्तरकालीनत्वमात्रस्योक्तप्रत्यक्षादिविषयत्वोपगमे ह्य उत्पन्ने श्वः स्थायिनि भविष्यतीति व्यवहारप्रसङ्ग इति वर्तमानकालध्वंसाधिकरणकालोत्पत्तिकत्वमेव भविष्यत्वं वक्तव्यम् । अत एव भविष्यति, उत्पत्स्यत इत्यादेः समानार्थकत्वोपपत्तिः। एवञ्चोक्तप्रतीत्यैव स्वाधिकरणक्षणवृत्तेः स्ववृत्तेर्वा प्रागभावस्याप्रतियोगित्वरूपं तदाद्यत्वम् , तद्वत्क्षणसम्बन्धरूपोत्पत्तिघटकतया प्रागभावसिद्धिरिति
आलोकप्रकाशः वच्छेदककोटौ जन्यत्वमपि विवक्षणीयम् । तेन कार्यताविशेषरूपप्रतिवध्यताशून्यभगवज्ञानासाधारण्यनिर्वाहः । यद्वा अनुत्तरत्वस्य स्वरूपकालिकोभयसम्बन्धेन विवक्षणान्न तत्साधारण्यम् । वस्तुतस्तु नित्यसाधारणधर्मस्य कार्यतावच्छेदकत्वेऽपि न क्षतिः। कालविशेषावच्छेदेन स्वावच्छिन्नाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदककारणतावच्छेदकत्वाभिमतधर्मकं यत् स्वम् , तद्वत्त्वरूपकार्यताया अनतिप्रसक्तत्वसम्भवात् । सिद्धान्ते तु लौकिकसन्निकर्षजन्ये दोषविशेषजन्ये च ज्ञाने साक्षात्कारित्वव्यञ्जकविषयताविशेषोपगमात्तच्छून्यत्वं निवेश्यैव तादृशज्ञाने व्यावर्तनीये। एवञ्च भगवज्ज्ञानेऽपि तादृशविषयताया एव स्वीकारात् प्रतिवध्यतावच्छेदकस्य नित्यसाधारण्याभावेन न तत्र जन्यत्वनिवेशनमावश्यकम् । स्पष्टं चैतत् सत्प्रतिपक्षगादाधर्यामिति । स्वाधिकरणक्षणध्वंसाधिकरणक्षणवृत्तित्वरूपस्वोत्तरत्वस्य विवक्षणे विशिष्टबुद्धेरवारणाद्वयाख्यायाम् - स्वध्वंसाधिकरणेति । प्रतिबन्धकताभेदप्रसङ्ग इति । यद्यपि स्वध्वंसाधिकरणक्षणध्वंसाधिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताप्रतियोगिताकभेदवत्क्षणवृत्तित्वविवक्षणे नायं दोषः, तथापि
For Private And Personal Use Only