________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२.
'नच' रत्नमालिका यत्तु सत्प्रतिपक्षग्रन्थे विरोधिनिश्चयानुत्तरतद्वत्ताबुझिस्वावच्छिन्नं प्रति विरोधिनिश्चयस्य प्रतिबन्धकत्वमुक्तम् , तद्रीत्या व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववान् वह्नयभाववानिति निश्चयस्य स्यानुसरतद्वत्ताबुद्धित्वावच्छिन्नं प्रति प्रतिबन्धकन्वकल्पनमे गेचितम्, प्रतिवध्यतावच्छेदककोटावनाहार्यत्वादेरनिवेशनीयतया लाघवात् । एवं व्यधिकरणधर्मा मच्छिन्नप्रतियोगिताकवनयभावधान् पर्वत इति निश्चयस्यापि । अत्रोत्तरचं स्ववृत्तिकृतिमत्त्व खवृत्तिप्राग
नूतनालोकः अन्यथा तत्तच्छरीरावच्छिन्नबाधनिश्चयविशिष्टत्वेन प्रतिबन्धकत्वपक्षेऽपि यत्र भूतशरीरावच्छेदेन बाधनिश्चयानन्तरक्षणे भूतावेशः, तदुत्तरक्षणेऽभिभाव्यशरीरावच्छेदेन तद्वत्ताबुद्धयापत्तेरवारणात् । अथवा तत्तत्पुरुषीयत्वं प्रतिबन्धकतावच्छेदककोटावुपादीयते, तावतापि शरीरापेक्षया पुरुषाणामल्पत्वेन लाघवानपायात्। इत्थश्च भूताद्यन्तर्भावेण न प्रतिबध्यप्रतिवन्धकभावः, प्रयोजनाभावादित्याहुः ।
सत्प्रतिपक्षग्रन्थ इति । "न भवत्येव तावद्यावदप्रामाण्यं न गृह्यते, अगृहीताप्रामाण्यस्यैव विशेषदर्शनस्य विरोधित्वात्” इति रत्नकोशकारमतपरिष्कारस्थदीधितिपतिव्याख्यानावसर इति शेषः । नन्वत्र स्वध्वंसाधिकरणक्षणध्वंसानधिकरणीभूतो यः क्षणः, तद्वृत्तित्वसम्बन्धेन विरोधिनिश्चयविशिष्टान्यत्वरूपमेवानुत्तरत्वं प्रतिवध्यतावच्छेदकं वाच्यम् , एवश्च ध्वंसाधिकरणक्षणध्वंसानधिकरणक्षणाप्रसिद्धया स्वत्वस्य सम्बन्धशरीरप्रवेशावश्यकतया प्रतिबन्धकताभेदप्रसङ्ग इत्यत आह-अत्रेति । व्यवहिताव्यव हतपूर्ववृत्त्यन्यदीयज्ञानव्यावृत्तिर्दलप्रयोजनं
आलोकप्रकाशः सम्बन्धेन तादृशरूपादावनुदयप्रसङ्गात् । कार्यायवहितप्राक्क्षगावच्छेदेन बाधाभावघटितसामग्यास्तत्रासत्वात्। तत्क्षणस्यावच्छेद्याधिकरणतादृशरूपासम्बन्धितया तादृशरूपादिनिष्ठबाधाभावाधिकरणत्वानवच्छेदकत्वात् । व्याख्यायाम्-प्रयोजनाभावादिति । आत्मनिष्ठप्रत्यासत्या भूतादितद्वत्ताबुद्धि प्रति बाधनिश्चयविशिष्टत्वेन प्रतिबन्धकत्वकल्पनेनैव भूतादेधिनिश्चयसत्त्वे तद्वत्ताबुद्धथनुदयनिर्वाहादिति भावः।।
मूले-स्वानुत्तरतद्वसाबुद्धित्वावच्छिन्नं प्रतीति । प्रतिवध्यतावच्छेदकधर्मस्य तद्वत्ताबुद्धित्वव्याप्यत्वनिर्वाहाय तद्वत्ताबुद्धि त्वनिवेशनम्। इदञ्च व्यायधर्मावच्छिन्नजनकसामग्या एव सहकारित्वमित्यभिप्रायेण । अत एव सत्प्रतिपक्षलक्षणे उन्नायकत्वदले प्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नजन्यत्वं भट्टाचार्यैर्निवेशितम् । अत्र प्रतिवध्यता
For Private And Personal Use Only