SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता इत्यत्रैव तत्तात्पर्यात् , एवं परकायप्रवेशस्थले त्यज्यमानस्वशरीरावच्छेदेन याधबुद्धन्यादिसत्त्वे तदात्मन्यन्यशरीरावच्छेदेन विशिष्टबुद्धयापत्तिः। अपि च भूतावेशस्थलेऽभिभाव्यस्य बाधनिश्चयसत्त्वेऽभिभावकभूतादेस्तच्छरीरावच्छेदेन तद्वत्ताबुद्धयनुदयप्रसङ्गः। अतः समवायेन विशिष्टबुद्धिं प्रति वाधनिश्चयविशिष्टत्वेनैव प्रतिवन्धकत्वं वक्तव्यम्। वैशिष्टयञ्च सामानाधिकरण्यसम्बन्धेन । तथा च बाधनिश्चयकालेऽन्यावच्छेदेन तदभावसत्त्वेऽपि न तद्विशिष्टस्याभावः, व्याप्यवृत्तेरपि सामानाधिकरण्येन तद्विशिष्टत्वान्नानुपपत्तिः । कायव्यूहस्थले चैकशरीरावच्छेदेन बाधबुद्धिसत्त्वे तदात्मनि शरीरान्तरावच्छेदेनापि विशिष्टबुद्धि पेयते, प्रमाणाभावात्। प्रामाणिकत्वे त्वनायत्त्या तत्तच्छरीरावच्छिन्नत्वमवच्छेदककोटौ निवेशनीयम् , तथा च ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशेऽपि तथाविधप्रतिवन्धकत्वाप्रसिद्ध या असम्भव एवेति परास्तम्। नूतनालोकः निधाय क्रीडाद्यर्थमन्यदीयमृतशरीरप्रवेशलक्षणो विद्याविशेषप्रयोज्यः । व्याप्यवृत्तेरिति । आत्मत्वादिरूपेत्यादिः। व्याप्तिपूर्वपक्षगादाधर्या कायव्यूहस्थले एकशरीरावच्छिन्ने आत्मनि प्रतिबन्धकसत्त्वेऽपि शरीरान्तरावच्छेदेन प्रतिवध्योत्पत्तेः स्पष्टमभिधानादाहप्रामाणि कल्वे स्विति । तत्तन्छरीरावच्छिन्नत्वमिति । तथा च शरीरभेदेन प्रतिबन्धकताभेद एवेति भावः। परास्तमिति । विषयतानिष्ठस्वनिरूपकज्ञानचैशिष्टयावच्छिन्नावच्छेदकत्वानिरूपकत्वस्यैव ज्ञानवैशिष्टयानवच्छिन्नेत्यनेन विवक्षिततया तादृशप्रतिबन्धकत्वाप्रसिद्धथनवकाशादिति भावः। केचित्तु अवच्छेदकतासम्बन्धेन तद्वत्ताबुद्धिं प्रत्यवच्छेदकतासम्बन्धन बाधनिश्चयत्वेन प्रतिबन्धकत्वं लाघवात् । न च भूतावेशस्थलेऽभिभाव्यस्य बाधनिश्चयसत्त्वेऽभिभावकभूतादेस्तच्छरीरावच्छेदेन तद्वत्ताबुद्धधनुदयप्रसङ्ग इति वाच्यम् ; तच्छरीरावच्छेदेन तदात्मनि ज्ञानोत्पत्तौ तच्छरीरावच्छिन्नतदात्ममनसंयोगस्य हेतुतया तदसम्भवेन भूतावेशानन्तरक्षणे ज्ञानोत्पादस्यैवायोगादिष्टापत्तेः । - आलोकप्रकाशः बिल्वाद्रिमाहात्म्ये पञ्चमाध्याये प्रतिपादितः । तत्यकारस्तु ततोऽवगन्तव्यः। मूले-बाधनिश्चय विशिष्टस्वेनैवेति । न च विशेष्यतावच्छेदकतासम्बन्धेन विशिष्टबुद्धिं प्रति तेन सम्बन्धेन बाधबुद्धेः प्रतिबन्धकत्वं कल्यताम् । तत्पुरुषीयत्वस्यावच्छेदककोटौ निवेशादेक पुरुषीयबाधबुद्धिदशायां न पुरुषान्तरस्य विशिष्टबुद्धयनुदयप्रसङ्गः। इत्थञ्च पुरुषभेदेन प्रतिबन्धकताभेदेऽपि विशेष्यतावछेदकभेदेन तद्भेदाभावालाघवं धर्मितावच्छेदकापेक्षया पुरुषाणामल्पत्वात्तेषामपि धर्मितावच्छेदकस्वादिति वाच्यम् ; तथा सत्यनागतादिरूपावच्छिन्नविशेष्यकविशिष्टबुद्धेविशेष्यतावच्छेदकता For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy