________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
'नच' रत्नमालिका . न च खण्डशरीरस्य महाशरीरनाशकालोत्पत्तिकबाधबुद्धेरवच्छेदकत्वेऽपि तदुत्पत्तिक्षणावच्छेदेन तदवच्छेदकत्वासत्त्वान्न व्यभिचार इति वाच्यम् ; एवमपि यत्र खण्डशरीरोत्पत्तिकाल एव बाधबुद्धिरुत्पन्ना, तत्र खण्डशरीरस्य तदवच्छेदकत्वे व्यभिचारस्य तदनवच्छेदकत्वे च तदुत्तरं विशिष्टबुद्धयापत्तेर्दुरित्वात् ।
न च खण्डशरीरे झानाद्यवच्छेदकत्वसत्त्वेऽपि तादृशज्ञानाव्यवहितपूर्वक्षणावच्छेदेन तत्र कारणतावच्छेदकीभूततादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकभेदरूपकारणाभावस्याप्यसत्त्वात् कथं व्यभिचारः ? कार्याव्यवहितपूर्वक्षणावच्छिन्नकार्याधिकरणवृत्तिकाभावप्रतियोगित्वस्यैव व्यभिचारपदार्थत्वादिति वाच्यम् ; तथापि खण्डशरीरस्य तादृशज्ञानाव्यवहितपूर्वक्षणावच्छेदेन तदवच्छेदकतानियामकसामग्र्यनधिकरणत्वात्तदवच्छेदकत्वमनुपपन्नमेव, तादृशसामग्यनधिकरणस्याप्यवच्छेदकत्वोपगमे सर्वत्रावच्छेदकतासम्बन्धेन तदुत्पत्तिप्रसङ्ग
नूतनालोकः न व्यभिचार इति । यत्र कार्यमुत्पद्यते तद्वृत्तिस्वाभावकत्वस्यैव व्यभिचारस्वादिति भावः । व्यभिचारस्येति । खण्डशरीरस्य बाधबुद्धथुत्पत्त्याश्रयत्वादिति भावः । विशिष्टबुद्धथापत्तेर्दुरित्वादिति ।
ननु नेयमापत्तिः सम्भवति, खण्डशरीरावच्छेदेन विशिष्टबुद्धेरुत्पत्ती बाधबुद्धयवच्छेदकतदवयवेऽप्यवच्छेदकतासम्बन्धेन तदुत्पत्त्यावश्यकत्वात्तत्र च प्रतिवन्धकाभावासत्त्वात् । नहि बाधकसत्त्वाद्विशिष्टबुद्धयवच्छेदकत्वं तत्र नोपेयते, किन्तु खण्डशीर एवेति वक्तुं युक्तम्, तदवच्छेनोत्पद्यमानकार्यस्य तत्प्रतिनियतयावदेशावच्छिन्नत्वनियमात् । न च खण्डशरीरे प्रतिबन्धकाभावघटितसामग्रीबलाद्विशिष्टबुद्धिजननेऽन्यत्र ताशसामग्रीविरहोऽकिश्चित्करः, यत्र यत्कार्यव्यक्तरुत्पत्तिः कार्यतावच्छेदकसम्बन्धेन तद्वयक्तिसम्बद्वेषु यावत्सु सामग्रीसत्त्वस्य तत्र तत्कार्यव्यक्त्युत्पत्तावपेक्षितत्वादित्यत आहएवमिति । परकायप्रवेशेति । अस्यैव ग्रन्थान्तरेषु परपुरप्रवेशशब्देन व्यपदेशः । स च भगवत्पादमत्स्येन्द्रभद्रशर्मप्रभृतिषु प्रसिद्धः । कुत्रचित् स्वशरीरं पुनः प्रवेशार्थ
आलोकप्रकाशः भगवत्पादमत्स्येन्द्रभद्रशर्मप्रभृतिप्विति । शङ्करविजये भगवत्पादस्य परकाया वेदा उक्तः । एवं मत्स्येन्द्रनाम्नोऽपि तत्रैव स्थलान्तरे प्रतिपादितः। भद्रशर्मणः परकायप्रदेशस्तु
For Private And Personal Use Only