________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता न चापच्छेदकतासम्बन्धेन विशिष्टबुद्धि प्रत्यवच्छेदकतासम्बन्धेन बाधयुद्धेः प्रतिबन्धकत्वाददोष इति वाच्यम् , एवं सति महाशरीरनाशदशायां जायमानबाधबुद्धेरनन्तरं यत्र खण्डशरीरोत्पत्तिस्तत्र तदनन्तरं तादृशखण्डशरीरावच्छेदेन विशिष्टबुद्धयापत्तेः, तत्र खण्डशरीरेऽवच्छेदकतासम्बन्धेन प्रतिबन्धकासत्त्वात् । नहि खण्डशरीरस्यापि तादृशबाधवुधवच्छेदकताभ्युपगमसम्भवः, तथा सत्यवच्छेदकतासम्बन्धेन तदधिकरणीभूतखण्डशरीरे तदव्यवहितपूर्वक्षणावच्छेदेन तत्कारणीभूतस्य तादात्म्यसम्बन्धेन शरीरस्यासत्वेन व्यभिचारप्रसङ्गात् ।
नूतनालोकः इत्यादिवचनेन ज्ञानिनः पुण्यादेस्तदीयसुहृदादौ फलजनकत्वोक्तेः। स्पष्टश्चायमर्थः प्रथमश्लोकव्याख्यानस्य न्यायरत्नावल्यामित्याहुः।
बाधबुद्धिक्षणे न खण्डशरीरोत्पत्तिसम्भवः, समवायेन द्रव्यं प्रति समवायेन द्रव्यस्य प्रतिबन्धकत्वकल्पनावश्यकतया पूर्वक्षणे महाशरीररूपप्रतिबन्धकसत्त्वादत उक्तम्-बाधबुद्धेरनन्तरमिति । खण्डशरीरोत्पत्तिक्षणे न तदेवच्छेदेन विशिष्टयुद्धेरापत्तिः सम्भवति, तत्पूर्वक्षणे तच्छरीररूपकारणविरहादत उक्तम्-तदनन्तरमिति । विशिष्टबुद्धयापत्तेरिति । न च शरीरस्य कार्यसहभावेन सानादिकं प्रति हेतुतया तन्नाशदशायां कथं बाधबुद्धेरुत्पत्तिरिति वाच्यम् ; लाघवेनान्त्यावयवित्वमनिवेश्य शरीरतदवयवसाधारणचेष्टाश्रयत्वेनैव तद्धेतुतायाः स्वीकारात्, तदानीमवयवावच्छेदेन तदुत्पत्तौ बाधकाभावात् । स्पष्टं चेदमिन्द्रियदीधितौ, व्याप्तिपूर्वपक्षगादाधां च ।
आलोकप्रकाशः ज्ञातयः सुकृतमुपयन्ति । अप्रिया दुष्कृतम्" इति पाठः । तद् विद्याबलेन। सुकृतदुष्कृते त्यजतीति तदर्थः । "प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥” इति मनुवचनमत्रादिपदग्राह्यम् । न्यायरत्नावल्यामिति । "भिद्यते हृदयग्रन्थिः” इत्यादि श्रुत्यर्थविचारावसर इति शेषः । अत्र कर्मणः स्वसमानाधिकरणफलजनकत्वमेवेति सिद्धान्तभङ्गः । अत एव "उक्तप्राप्त्यस्वीकारे तु नश्यतीत्येवार्थः" इत्युक्तं तत्रैवेत्यस्वरससूचनायाह रित्युक्तम् ।
For Private And Personal Use Only