________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च रस्नमालिका
नूतनालोकः चास्य कर्माणि" इत्यादिवाक्यानि । आगामिनस्तु ज्ञानमहिम्ना न संश्लेषः । तत्तात्पर्यकश्च “तद्यथा पुष्पकरपलाशे आपो न श्लिश्यन्ते' इत्यादि । पारमर्षाणि सूत्राणि "तदधिगमे उत्तरपूर्वाद्ययोरश्लेषविनाशौ तद्वयपदेशात्", "इतरस्याप्येवमश्लेषः पाते तु", "अनारब्धकार्ये एव पूर्वे", "तदवधेः" इति । अत्र वृत्तिः-"तदधिगमे तस्य ब्रह्मगोऽधिगमे साक्षात्कारे सति, उत्तरपूर्वाद्ययोरागामिसञ्चितपापयोरइलेषविनाशौ भवतः, आगामिपापस्यास्पर्शः सश्चितपापस्य विनाशश्च भवति, “तद्यथा पुष्करपलाशे आपो न श्लिष्यन्ते", "तद्यथा इषीकातूलमग्नौ प्रोतं प्रदूयेत", "यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन' इत्यादिश्रुतिस्मृतिष्वागामिसश्चितकर्मणोरश्लेषविनाशव्यपदेशादित्यर्थः। पापस्याश्लेषविनाशौ प्रतिपाद्य पुण्यस्य तौ प्रतिपादयति-हतरस्येति । पाते ब्रह्मसाक्षात्कारेण देहाभिमाननाशे सति इतरस्य ब्रह्मज्ञानकालीनोतरपुण्यस्यासंश्लेषः असंस्पर्शो भवति । इदमुपलक्षणम् । सञ्चितपुण्यस्य नाश इत्यपि द्रष्टव्यम्। वर्तमानदेहजनकयोः प्रारब्धपुण्यपापयोस्तु ज्ञानान्नाशो नास्तीत्याह-अनारधेति । अनारब्धकार्येऽनुत्पादितवर्तमानशरीर एव पुण्यपापे नश्यतः, न तु वर्तमानशरीरारम्भके । कुतः ? तदवधेः, ब्रह्मणः साक्षात्कारानन्तरमपि प्रारब्धनाशपर्यन्तं पर्यवसानस्य "तस्य तावदेव चिरम्' इत्यादिश्रुतिषु प्रतिपादितत्वादित्यर्थ इति । अन्ये तु सर्वेषामेव कर्मणां भोगादेव क्षयो युक्तः । न च "भिद्यते हृदयग्रन्थिः " इत्यादिवचनविरोधः, यतस्तत्र “क्षीयन्ते चास्य कर्माणि" इत्यंशस्य-अस्य दृष्टतत्त्वस्य कर्माण्यभुज्यमानानि पूर्व सश्चितपापादीनि श्रीयन्ते भोगसमाप्तिपर्यन्तं विद्यमानान्यपि स्वाश्रये मुक्तात्मनि दुःखादिकं न जनयन्तीत्येवार्थः। एवमेव वचनान्तराणामध्यर्थोऽवसेयः। "तस्य पुत्रा दायमुपयन्ति, सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्"
आलोकप्रकाशः प्यन्तर्भावेन भविष्यद्दे होत्पादककर्मणोऽपि प्रारब्धत्वात्तत्कथनसङ्गतेरिति प्रारब्धस्येव सञ्चितस्यापि भोगादेव क्षयः, “नाभुक्तम्" इत्यादिवचनात् । आगामिनस्तु विदुष्यनुत्पत्तिलक्षणोऽसंश्लेष एव वासनाविरहादिति वदतां मतमाह-अन्ये विति । भोगादेवेति । ज्ञानस्यापि नाशकत्वे क्वचिद्भोगः क्वचिज्ज्ञानमित्यननुगमेन व्यभिचारात् कार्यतावच्छेदककोटौ स्वत्वघटितस्यानन्तर्यस्य निवेशनीयतया गुरुभूतानेककार्यकारणभावापत्तरिति भावः। तस्य पुत्रा इत्यादि । तस्य मृतस्य विदुषः। दायं धनम् । अयं पाठः शाट्यायनिनाम् । कौषीतकीनान्तु "तत् सुकृतदुष्कृते विधुनुते । तस्य प्रिया
For Private And Personal Use Only