________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका तत्प्रकाशटिप्पण्यपबृंहिता
नूतनालोकः
प्रसङ्गात् । एवञ्च "अवश्यमेव भोक्तव्यम्" इत्यस्याविरोधाय ज्ञानिनामपि सकलकर्मभोगोपगम आवश्यक इत्यपि न युक्तम्; कृतप्रायश्चित्तानां कर्मणां भोगाभावेन तत्रत्यकर्मपदस्य वेदबोधितनाशकानाश्यकर्मपरताया अवश्यं वक्तव्यत्वात्तत्वज्ञानरूपनाशकस्यापि वेदबोधिततया तेन भोगं विनैव कर्मनाशाङ्गीकारे क्षत्यभावात् । तत्रज्ञानस्य साक्षाददृष्टनाशकत्वे कचिद्भोगः कचित्तत्वज्ञानमित्यननुगमेन व्यभिचारागोगस्याप्यदृष्टनाशकता न सम्भवतीति नाशङ्कनीयम्; भोगोत्तरादृष्टनाशत्वस्य भोगजन्यतावच्छेदकत्वोपगमेन व्यभिचारानवकाशात्, प्रायश्चित्त कीर्तनादिजन्यादृष्टनाशे व्यभिचारवारणाय कार्यतावच्छेदकशरीरे तत्तत्कारणानन्तर्यनिवेशस्य सर्वमतेऽप्यावश्यकत्वात् । इदमत्र बोध्यम् कर्म त्रिविधम् - प्रारब्धं सचितमागामि चेति । तत्र वर्तमानशरीरं यत्कर्मजन्यं तत् प्रारब्धम्, तद्भिन्नं वर्तमानं कर्म सचितम् । जनिष्यमाणं कर्म आगामि । तत्र प्रारब्धस्य भोगादेव क्षयः । " नाभुक्तम्" इत्यादिवचनानि तद्विषयाणि । सञ्चितस्य च ज्ञानादित एव क्षयः । तत्पराणि "क्षीयन्ते
For Private And Personal Use Only
११५
आलोकप्रकाशः
" यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इति यावत्कर्मभोगपर्यन्तं विलम्बश्रवणानुपपत्त्या तद्वाक्यस्यार्थ - वादत्वं यथाश्रुतार्थमात्र तात्पर्य वावश्यं कल्पनीयमित्याशङ्कां परिहरति — एवञ्चेति । प्रायश्चित्ते प्रत्यन्यथानुपपत्तौ चेत्यर्थः । श्रुतिस्मृतीनां विषयव्यवस्थां प्रदर्शयन् विरोधं परिहर्तुमाहइदमति । कर्म त्रिविधमिति । यद्यपि वृत्तौ कर्माणि चतुर्विधानि सञ्चितानि प्रारब्धान्यतीतान्यागामीनि च । तत्र पूर्वजन्मकृतानि भविष्यद्देहजननयोग्यानि स्वर्गादिफलोद्देशेन कृतानि सञ्चितानि मोक्षसाधनश्रवणमननादिसम्पादकानि वर्तमानशरीरारम्भकाणि पूर्वजन्मकृतानि कर्माणि प्राधानि, ब्रह्मसाक्षात्कारोत्पत्तेः पूर्वमस्मिन् जन्मनि जन्मान्तरे वा ब्रह्मसाक्षात्कारोदेशेन कृतानि कर्माण्यतीतानि ब्रह्मसाक्षात्कारोत्पत्यनन्तरमस्मिन् जन्मनि कृतान्यागामीन्युक्तम् ; तथापि ब्रह्मसाक्षात्कारोद्देशेन कृतानामग्निहोत्रादिकर्मणां ब्रह्मसाक्षात्कारं प्रत्युपजीव्यत्वात्तन्नाश्यत्वासम्भवेऽपि फलत्वेन तस्य तादृशकर्मनाशकत्वं विरोधाभावादतीतकर्मणां सञ्चितेऽन्तर्भावकल्पनं सम्भवतीत्यभिप्रायेण लाघवादिह वैविध्यमुक्तमिति ध्येयम् । वर्तमानशरीरं यत्कर्मजन्यमिति । न चैवं सति ज्ञानिनां प्रारब्धकर्मक्षपणार्थ स्मृतावनेकजन्मकथनासङ्गतिः, भविष्यद्दे हजनक कर्मणां वर्तमानशरीरानुत्पादकानां प्रारब्धत्वाभावेन ज्ञानेनैव नाशसम्भवादिति वाच्यम्, वर्तमानशरीरा बच्छेदेनोपभोग्यानां तदुत्पादकानां बहूनां कर्मणां मध्ये नानाजन्मोपभोग्य ब्रह्महत्यादिपापानाम