________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११४
'नव' रत्नमालिका
नूतनालोकः
सचिताः कर्मकोटयः” इति पञ्चदश्यामन्यत्रापि भूरिशः प्रयोगदर्शनेनादृष्टत्वरूपसामान्यधर्मपुरस्कारेण लक्षणाया निरूढत्वेन शक्तितुल्यत्वाद्भोगा कल्पनलाघवानुरोधेन ज्ञानाद्यनाश्यादृष्टत्वरूप विशेषधर्म पुरस्कारेण स्वारसिकलक्षणाया अयुक्तत्वात् । न च सामान्यरूपेण लक्षणास्वीकारेऽपि कर्मणां भोगस्यावश्यं वक्तव्यतया भोगानुपहितकर्माप्रसिद्धया तादृशवाक्यस्य यथाश्रुतार्थपरता न सम्भवत्येवेति वाच्यम्; अतीतत्वस्य तप्रत्ययेन विवक्षणात् तदपेक्षयाऽतीतो यो भोगस्तदनुपहितकर्मणि तत्क्षयप्रतियोगित्वनिषेधरूप यथाश्रुतार्थेऽप्रसिद्धयनवकाशान् । यद्यपि भोगोऽनुभव विशेषस्तद्विषयत्वरूपं मुक्तत्वं न कुत्राप्यद्दष्टे, तथापि भोगविषयफलोपधानमेव भोगकर्मत्वं प्रकृते विवक्षितम् । सुखं भुज्यत इतिवत् पुण्यं भुज्यत इत्यपि प्रयोगदर्शनात् तादृशार्थस्यापि स्वरससिद्धत्वात् । इत्थन भोगस्यैव कर्मनाशकतथा ज्ञानिनामप्यपान्तरतमः प्रभृतीनां भोगादिना कर्मक्षपणार्थं देहान्तरोत्पादनं तत्र तत्रोक्तं सङ्गच्छते, अन्यथा ज्ञानादिनैव कर्मक्षये तदसाङ्गव्यापातादित्याहु:, तन्न, यतः " कर्म कोटिशतैरपि " इत्यनेन यथा भावनाख्यसंस्कारः कालवशात् फलमनुत्पाद्यापि नश्यति, तथा न कर्मेत्येव लभ्यते । तथा च ज्ञानस्य कर्मनाशकत्वे न किचिदनुपपन्नम्, अन्यथा प्रायश्चित्तादपि कर्मनाशेनोक्तवचनविरोधापरिहारात्, प्रायश्चित्तस्य पापानाशकत्वे तत्र प्रवृत्यानुपपत्तेः । न च प्रायश्चित्तस्यापि झटिति कायव्यूहाधीन भोगसम्पादनद्वारा पापनाशकत्वान्न तत्र प्रवृत्त्यनुपपत्तिरिति वाच्यम् ; दुःखव्यक्तीनां साम्ये झटितिभोगविलम्बितभोगयोरविशेषेण प्रायश्चित्तानर्थक्य
Acharya Shri Kailassagarsuri Gyanmandir
आलोकप्रकाशः
कालयोगः" इत्यादिसूत्र इति सांख्यसूत्रभाष्यम् । भवजन्मकर्मणामिति । संसारस्य जन्मनः कर्मणाञ्च विनाशायेत्यर्थः । अन्यत्रापीति । "बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि" इत्यादि परिग्रहः । तत्क्षयापेक्षयेति । तथा चातीतभोगोपहितकर्मण एव वर्तमानक्षयप्रतियोगित्वम्, न भविष्योगोपहितस्य वर्तमानभोगोपहितस्य च कर्मण इति भावः । न किञ्चिदनुपपन्नमिति । तथा च फलानुपतिकर्मनाशे कालजन्यत्वनिषेधे तात्पर्यात् कचित्तादृशविनाशे तत्त्वज्ञानजन्यत्वस्वीकारे बाधकाभाव इति भावः । ननु तद्वाक्यस्य भोगं विना कर्म न नाशप्रतियोगीति यथाश्रुतार्थ एव कुतो न तात्पर्यमित्यत आह-अन्यथेति । इष्टापत्तौ बाधकमाह - प्रायश्चित्तस्येति । अविशेषेण तारतम्याभावेन | ननु तद्वाक्ये तादृशतात्पर्यकल्पनं सम्भवति कल्पकोटीत्यायुक्तस्तथापि
For Private And Personal Use Only