________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः विश्वेश्वरस्य देवस्य काशीनाम्ना महापुरी । यत्र पापी मृतः सद्यः परं मोक्षं प्रयाति हि ॥ अत्रैव मृतमात्राणां मुक्तिरेकेन जन्मना । कृत्वा कर्माण्यनेकानि कल्याणानीतराणि च ।
तानि क्षणात्समुरिक्षप्य काशीसंस्थोऽमृतो भवेत् ।। इत्यादिबहुतरप्रमाणसम्भवादिति वाच्यम् ; श्रुतिस्मृत्यन्यथानुपपत्त्या काश्यां मृतानामपि क्षणमात्रेण निखिलकर्मोपभोगक्षममायामयशरीराभ्युपगमेन भोगानुपपत्तिविरहात्। न च "नामुक्तम्" इति वाक्ये कर्मपदं लक्षणयैवादृष्टार्थकमुपगन्तव्यम् , तस्य क्रियायामेव शक्तेरिति लक्षणाया आवश्यकत्वे ज्ञानानाश्यादृष्ट एव सास्तु । तत एव विरोधभङ्गे किमर्थं ज्ञानिनां निखिलकर्मभोगकल्पनमिति वाच्यम् ; अदृष्टे कर्मपदस्यात्र “न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च" इति सांख्यसूत्रे, "क्षेपणाय भवजन्मकर्मणाम्” इति कुसुमाञ्जलौ, "अनादाविह संसारे
आलोकप्रकाशः । वग्निना अवयवेष्वभिधातो जन्यते । ततस्तेषु क्रिया भवति । ततस्तया क्रियया अवयवानां विभागः। तस्मादिन्धनारम्भकसंयोगनाशः। ततोऽवयविनाश इति क्रमः। तत्रावयविनाशे मुख्यं कारणमिन्धनारम्भकसंयोगनाश एव न त्वग्निरिति । भोगानुपपत्तिविरहादिति । तथा च काशीमरणस्थले तत्त्वज्ञानात् पूर्व मायिकशरीरं परिगृह्य निखिलकर्माण्युपभुज्यैव तारकोपदेशलाभः । ततस्तदव्यवहितक्षणे मुक्तिरिति कल्प्यते । तदप्युक्तं परमेश्वरेण
पुण्यानि पापान्यखिलान्यशेषं सार्थ सबीजं सशरीरमार्य ।
इहैव संहृत्य ददामि बोधं यतः शिवानन्दमवाप्नुवन्ति ॥ इति । इत्थञ्च नोदाहृतवचनविरोधः। न वा कर्मणां भोगैकनाश्यतावचनविरोध इति भावः । विस्तरस्त्वस्मदीयगुरुचरणकृतगङ्गातरङ्गिणीव्याख्यायां द्रष्टव्यः । ज्ञानानाश्यादृष्ट एवेति । सञ्चितागामिभिन्न एवादृष्ट इत्यर्थः । निखिलकर्मभोगकल्पन मिति । सञ्चितागामिनां जन्मान्तरे प्रारब्धतापन्नानां सतां भोगकल्पनमित्यर्थः। म कर्मणेति । नहि विहितनिषिद्धकर्मगापि पुरुषस्य बन्धः, कर्मणामनात्मधर्मत्वात् , अन्यधर्मेण साक्षादन्यस्य बन्धे च मुक्तस्यापि बन्धापत्तेः । स्वस्वोपाधिकर्मणा बन्धाङ्गीकारे नायं दोष इत्याशयेन हेत्वन्तरमाह----अतिप्रसक्तेश्चेति । • प्रलयादावपि दुःखयोगरूपबन्धापत्तेश्चेत्यर्थः । सहकार्यन्तरविलम्बतो बिलम्बकल्पनञ्च प्रागेव निराकृतं "न
१५
For Private And Personal Use Only