________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच रत्नमालिका करणता स्वावच्छिन्नविशेष्यकसाध्यप्रकारकानाहार्यज्ञानत्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता स्वरूपसम्बन्धेन । स्वनिष्ठप्रतियोगितावच्छेदकता स्वीयविशेष्यतावच्छेदकनिरूपितत्वसम्बन्धावच्छिन्ना। अधिकरणतानिष्टप्रतियोगिता स्वविशिष्टरूपावच्छिन्नविषयकत्वसम्बन्धावच्छिन्ना। स्ववैशिष्ट्यं स्वाश्रयवृत्तित्व स्वनिरूपकधर्मविशिष्टप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन । प्रतीती धर्मवैशिष्ट्यं स्वावच्छिन्नविशेष्यकहेतुसमानाधिकरणसाध्याभावप्रकारकत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। वृत्तित्वं स्वसमानेत्यादिभेदवत्त्वसम्बन्धेन । शेषं पूर्ववत् । इत्थं च घटो वाच्यत्वाभाववानिति भ्रमीयप्रतिबन्धकतानिष्ठा या घटत्वाद्यधिकरणता स्वव्यधिकरणेन स्वविशिष्टरूपावच्छिन्नविषयकत्वसम्बन्धेन तच्छ्न्यत्वं घटत्वेन वाच्यत्वाद्य
नूतनालोकः त्यादिज्ञानस्य जलं वह्नयभाववदिति ज्ञानं स्वपदेनोपादायोक्तात्यन्ताभाववत्त्वसम्बन्धेन किञ्चिद्विशिष्टत्वेऽपि न क्षतिः। अधिकरणतावच्छेदकसम्बन्धघटकतया प्रतिबन्धकतात्वस्य प्रवेशाद् गुणवद्वान् समवायेन घटादित्यादौ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमासामान्यस्य गुणोऽवृत्तिरिति निश्चयप्रतिवध्यः त्वाधिकरणतानिष्ठा या स्वीयधर्मितावच्छेदकनिरूपिताधिकरणता गुणत्वात्मकस्वविशिष्टरूपावच्छिन्नविषयकत्वसम्बन्धेन तद्विशिष्टत्वेऽपि न क्षतिः। अधिकरणतायां स्वीयधर्मितावच्छेदकनिरूपितत्वमनुपादाय प्रतियोगितायां स्वावच्छिन्नत्वनिवेशाद् हृदो वह्नयभाववानिति ज्ञानस्य स्वीयधर्मितावच्छेदकनिरूपिता या हृदनिष्ठाभावप्रतियोगी वह्निरिति निश्चयत्वावच्छिन्नप्रतिबन्धकतानिष्ठाधिकरणता, उक्तसम्बन्धेन तच्छून्यत्वेऽपि न क्षतिः। स्वव्यधिकरणेन खविशिष्टरूपावच्छिन्नविषयकत्वसम्बन्धेनेति । अत्र स्वव्यधिकरणत्वं स्वनिष्ठाधेयतानवच्छेदकत्वम् , स्वाप्रतियोगिकत्वं वा, ह्रदविशेष्यकवह्निमत्ताबुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतानिष्ट
आलोकप्रकाशः करणतानिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वस्यैव द्वितीयसम्बन्धत्वमस्तु । किमर्थं तत्र स्वस्य प्रतियोगितावच्छेदकत्वघटनेत्याशङ्कयाह-अधिकरणतायामिति । तच्छून्यत्वेऽपीति । तद्वयक्तित्वावच्छिन्नतनिष्प्रतियोगिताकाभाववत्त्वेऽपीत्यर्थः । मूले-स्वविशिष्टप्रतिवध्यतानिरूपितेति । स्वपदं धर्मितावच्छेदकपरम् । स्वाश्रयवृत्तित्वेति । स्वं हृदत्वाद्यधिकरणता, न तु पर्वतत्वाद्यधिकरणता, सदाश्रय
For Private And Personal Use Only