________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपचंहिता भावप्रमायां सूपपादमिति । यद्वा द्वितीयसम्बन्धघटकाधिकरणता पूर्वोक्तसम्बन्धावच्छिन्नैव । तत्र स्ववैशिष्ट्यमपि पूर्ववत् । रवाधिकरणता तु स्वाश्रयरूपावच्छिन्नविशेष्यकसाध्यप्रकारकानाहार्यज्ञानत्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता पूर्ववदेव स्वरूपसम्बन्धेन । स्वनिष्ठावच्छेदकता वविशिष्टाधिकरणतानिरूपितत्वसम्बन्धावच्छिन्ना । स्ववैशिष्टयं चाधिकरणतायां स्वीयधिशेष्यताविशिष्टत्वसम्बन्धेन। विशेष्यतावैशिष्ट्यं स्वावच्छेदकनिष्ठत्व स्वनिरूपितप्रकारतावच्छेदकावच्छिन्नप्रतियोगिताकभेदनिरूपितत्वोभयसम्बन्धेन । प्रतियोगितावच्छेदकसम्बन्धः पूर्ववत् । तद्धट कस्ववैशिष्ट्यं स्वाश्रयवृत्तित्वस्वनिरूपकाधिकरणताविशिष्टप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन । प्रतीतावधिकरणतावैशिष्ट्यं स्वाश्रयरूपावच्छिन्नविशेष्यतानिरूपिता या स्वनिरूपकभेदप्रतियोगितावच्छेदकावच्छिन्नप्रकारता, तनिरूपकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । शेषं पूर्ववदिति ।
नूतनालोकः ह्रदत्वाद्यधिकरणत्वादेरेव निरुक्तसम्बन्धप्रतियोगित्वात् । प्रमायां यत्समानाधिकरणसाध्याभावप्रकारकत्वविशेषणवैयर्खापत्तेः कल्पान्तरमाह-यद्वेति । एतत्कल्पे द्वितीयसम्बन्धात्मकात्यन्ताभावप्रतियोगिभूताधिकरणता प्रतिबन्धकतानिष्ठैव । परन्तु प्रमीयधर्मिता च्छेदकनिष्ठाप्रमीयप्रकारतावच्छेदकावच्छिन्नप्रतियोगिताकभेदनिरूपिता या अधिकरणता तन्निरूपिता, न तु धर्मितावच्छेदकनिरूपितेति बोध्यम् ।
आलोकप्रकाशः प्रतिबन्धकतावृत्तिरूपाप्रसिद्धः । अत एव स्वविशिष्टरूपावच्छिन्नविषयकत्वस्य भ्रमीयप्रतिबन्धकतानिष्ठपर्वतत्वायधिकरणताया व्यधिकरणसम्बन्धत्वम् । शेषं पूर्ववदिति । तथा च स्वाधिकरणत्वं स्वावच्छिन्नविषयकनिश्चयत्वसम्बन्धेन । भेदप्रतियोगितावच्छेदकतास्वरूपसम्बन्धेनेत्यर्थः । व्याख्यायाम्वैयर्थ्यापत्तरिति । ह्रदो वह्नयभाववानित्यादिप्रमाया द्वितीयसम्बन्धबलेनैव व्यावर्तनात् । न च वृक्षः कपिसंयोगाभाववानिति प्रमाव्यावृत्यर्थं तदावश्यकमिति वाच्यम् ; सम्बन्धघटकहेतुसामानाधिकरण्यस्य निरवच्छिन्नत्वविवक्षणेनैव तद्वथावृत्तेरिति भावः। मूले-पूर्ववदिति । स्वसमानेत्यादिभेदवत्त्वसम्बन्धेनेत्यर्थः । स्वाधिकरणता स्विति । स्वं प्रकारतावच्छेदकावच्छिन्नप्रतियोगिताकभेदनिरूपितं धर्मितावच्छेदकनिष्ठमधिकरणत्वम् , सामानाधिकरण्यवटकीभूततदधिकरणता त्वित्यर्थः । शेषं पूर्ववदिति । शेषं स्वाश्रयवृत्तित्वं पूर्ववत् स्वसमानेत्यादिभेदवत्त्वसम्बन्धेनेत्यर्थः । इत्थञ्च यत्समानाधिकरणेत्यनुपादाने हृदो वह्नयभाववानिति प्रमाया अपि संग्रहः स्यात् । स्वविशिष्टरूपा
For Private And Personal Use Only