________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता न चैवं सति केवलान्वयिसाध्यकस्थलेऽव्याप्तिः। तत्र स्वावच्छिन्नविशेष्यकसाध्यवत्ताज्ञानसामान्यप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेद - कधर्मस्याप्रसिद्ध रिति वाच्यम्; तादात्म्य अधिकरणतानिष्ठखावच्छिन्नप्रतियोगिताकात्यन्ताभाववत्त्वैतदुभयसम्बन्धेन किञ्चिद्विशिष्टत्वस्य प्रमायां विवक्षणेनाव्याप्त्यप्रसक्तेः। अधिकरणता च स्खविशिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकतात्वसम्बन्धावच्छिन्ना। स्ववैशिष्टयं स्वसमानेत्यादिभेदवत्त्वसम्बन्धेन। स्वाधि
नूतनालोकः त्मकरूपावच्छिन्नविषयताशून्यस्य ह्रदो वह्नयभाववानिति ज्ञानस्याव्यावृत्तिः । तादृशप्रकारतायां स्वावच्छिन्नविशेष्यतानिरूपितत्वोपादानाद्वयधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववद्धदसमानकालीनहदो वह्नयभाववानिति ज्ञानस्य हेतुसमानाधिकरणसाध्याभावप्रकारताशून्यप्रतीतिविषयतावच्छेदकीभूतप्रतिबन्धकतावृत्तिरूपावच्छिन्नाविषयकत्वेऽपि न तत्संग्रहापत्तिः।
निरूपकतावच्छेदकधर्मस्याप्रसिद्धेरिति । तत्रात्यन्ताभावाप्रतियोगित्वमेव केवलान्वयित्वम् , न तु भेदप्रतियोगितानवच्छेदकत्वरूपम् । तेन कपिसंयोगाभावसाध्यकस्थले वृक्षत्वस्य स्वपदेन ग्रहणे वृक्षनिष्ठाभावप्रतियोगिकपिसंयोगाभावत्वरूपतथाविधधर्मस्य प्रसिद्धया अप्रसिद्धिनिबन्धनाऽव्याप्तिविरहेऽपि नासङ्गतिः। तादात्म्येत्यादि । अत्र प्रथमसम्बन्धोपादानाद् हृदो वह्नयभाववानि
आलोकप्रकाशः भाववदयोगोलकमिति प्रमाया धर्मविशिष्टत्वाभावादसंग्रहेणातिव्याप्तिः स्यादिति भावः । अव्यावृत्तिरिति । तथा निवेशे च हृदनिष्ठाभावप्रतियोगिवह्नित्वस्येव वह्नयभाववद्धदत्वस्यापि तादृशप्रकारताशून्यप्रतीतिविषयतावच्छेदकत्वेन तदवच्छिन्नविषयताकोक्तज्ञानस्य व्यावृत्तिरिति भावः । वह्नयभाववानिति ज्ञानस्येति । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववद्धदो वह्नयभाववानिति ज्ञानीया या धर्मितावच्छेदकीभूतव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभावनिष्ठप्रकारता, तस्याः कथञ्चित्तादृशाभाववज्रदत्वावच्छिन्नविशेष्यतानिरूपितत्वात् कालीनहृदविशेष्यकज्ञानपर्यन्तानुधावनम् । प्रतिबन्धकतावृत्तिरूपेति । तच्च रूपं ह्रदत्वावच्छेदेन वह्नयभाववत्त्वादिकं बोध्यम् ।
अप्रसिद्धिनिबन्धनेति । अनेनात्र समानासमानाधिकरणधर्मावच्छिन्नप्रतियोगिताककपि'संयोगाभावद्वयावगाहिसमूहालम्बनमादायाव्याप्तिरस्तीति सूचितम् । नासङ्गतिरिति । औत्सर्गिकव्युत्पत्तिमित्यावच्छेदकावच्छेदेनान्वस्यानुपपत्तिरित्यर्थः । नन्वत्र स्वीयधर्मितावच्छेदकनिरूपिताधि
For Private And Personal Use Only