________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ शतार्थविवरणे
सम्बाधने हे ग्रहारम्भ ! 'यो वातयशसोः पुंसी 'ति विश्वलोचनवचनात् ये यशसि हे मन हे निमन ! ' दरिर्वहरिर्मञ्जरि : पुजिभेरीति (हम) लिङ्गानुशासनवचनात् दरिषु- कन्दरेषु द्रवति वैराग्यवशात् विहरति प्रत्यये दरिद्रः, तस्य सम्बोधने हे दरिद्र ! । अस्ता लक्षणया जिताः अरयः - शत्रवो येन सः अस्तारिर्भगवत्पिता जितशत्रुरिति गम्यते । तदस्यापत्यं' आस्तारः, तस्य सम्बोधनं हे आस्तार -- हे अजितजिन ! | त्वं, 'कं सुखे' तथा 'थो भीत्राणे' इत्येकाक्षरवचनात् समाहारद्वन्द्वे कथसुखभीत्राणं कर्तुं ईश्वरोसि । त्वं किंकुर्वन् ? ऊन् - एकादश रुद्रान् । अथवा 'एकमूर्तियो देवा ब्रह्मा विष्णुर्महेश्वर' इतिवचनात् ब्रह्मविष्णुमहेशान रलयोरैक्यात् पलान्- मूर्खान असर्वज्ञानितियावत् । सु-अतिशयेन ' अयञ् गतौ ' शतृप्रत्यये अयन्'गत्यर्था ज्ञानार्था' इतिवचनात् जानन् स्वयन्- विदन्नित्यर्थः । 'पल' मांस' पलं मानं पलो मूर्खः पला तुले' त्यनेकार्थध्वनिमञ्जर्याम् । स्वयमित्यत्र 'यमा यपेऽस्ये' तिसूत्रेण स्वयन्निति सिद्धम् । कथ' किं वि०? 'पः प्रौढे पवने पथी'ति सुधाकलशवचनात् पः- प्रौढो, रा-द्रव्यं यत्र तत् परि । कथं पुनः किंवि० ? अपर - अद्वितीय ं । त्वं किं वि० ? इ: - कामस्तत्र ङः - शङ्करः, दाहकत्वात् सयुः । त्वं पुनः किवि० ? ई-श्रीः तया युक्त शु-शोभन' ' रथाङ्ग' रथपादोऽरिचक्र' मितिहैमनाममालावचनात् अरि-धर्मचक्रं यस्य सः ईश्वरी || ३ ||
परिग्रहारम्भ ! मग्नास्तारये युः कथं परान् । स्वयं दरिद्रो ! न परमीश्वरी कर्तुमीश्वरः ॥४॥
* ई ऋ इति पदच्छेदे, पण्ठयेकवचनं युः ।
For Private And Personal Use Only