SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअजितजिनवर्णनम् ] व्याख्या-'परिभूमि' इत्युणादिवचनात् परिभूमिस्तत्र, परिसमन्ताद्वा रलयो रैक्यात् 'देवनस्तत्पणो ग्लह' इत्यभिधानचिन्तामणिवचनात् ग्लहः-अक्षस्य पणस्तत्र अर-अत्यर्थ 'भः प्रभावे मयूखे' इति महीपवचनात् भः-प्रभावो राज्ञी राजानमक्षक्रीडायां जयतिस्मेत्येवंरूपो यस्य सः परिग्लहारम्भः-अजितः । भगवति गर्भस्थिते जननी विजयादेवी भ; जितशत्रुनृपेणाक्षक्रीडायां न जितेतिवचनात् । तस्य सम्बो० हे परिग्लहारम्भ-हे अजित ! मग्नो-लक्षणया लीनः सन् आस्ते-तिष्ठति क्विपि मग्नाः, ईदृशः ता-लक्ष्मीस्तस्या आंश्रियं राति-ददाति डप्रत्यये आरः, ईशो यो-यानं गजो यस्य सः, तस्य सम्बो० मग्नास्तारय-हे गजलाञ्छन ! । 'इ' इत्यामन्त्रणे । दलानि-रलयोरैक्यात् पर्णानि सन्त्यस्य स दली ईदृशो दुःचैत्यगुमो यस्य सः दलिदुः, तस्य सं० हे दलिद्रो ! । त्वं 'ई' श्रीः तया युक्ता — ऋः पृथिव्यां (देव)मातरी ति महीपवचनात् । ऋः भूमिः, तस्याः युः-भूमिसकाशात् 'प्रतिपक्षः परो रिपुरितिवचनात् परान्-रिपून , ' परो दूरान्यश्रेष्ठशत्रुषु' इत्यनेकार्थवचनात् परं-दूरं कर्तुं स्वयं आत्मना ईश्वरोऽसि । केन-सुखेन थो-भीत्राणं (यस्मात् तत् ) यथा स्यात्तथा । कथमिति क्रियाविशेषणम् । त्वं किंविशिष्टः ? ' ईश्वरः स्वामिनि शिवे मन्मथे' इत्यनेकार्थवचनात् ईश्वरः-कामः, सोऽस्यास्तीति ईश्वरी-कामी । नकारस्य निषेधार्थत्वात् न ईश्वरी-अकामीत्यर्थः ॥४॥ परिग्रहारम्भ! मनास्तारये युः कथं परान् । स्वयं दरिद्रोनपर! मीश्वरीकर्तुमीश्वरः ॥५॥ व्याख्या-परिग्रहाः-स्त्रियः परिकरो वा, तथा आ-लक्ष्मीः For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy