________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीऋषभजिनवर्णनम् ] यथा स्यात्तथा । कथमिति क्रियाविशेषणम् । त्वं किंवि० ? शं. व्यंजनशकारं वांकगतिगन्धनयोरिति वाति-गच्छति डप्रत्यये श्व ईदृशो यः रीइतिवर्गस्तं 'कैगैरेशद्ध'इति कायति-वदति डप्रत्यये श्वरीक ईदृशः ऋ इति स्वरो यस्य स श्वरीकर् एतावता श्रीऋ इतिसिद्ध । त्वं पुनःकिंवि० ?-तुइतिवर्णं मीनाति-बध्नाति क्विपि तुमीः, ईदृशः यः शकारस्तं वाति-गच्छति वर्णक्रमात् डप्रत्यये श्व:- षकारः, तेन राजते डप्रत्यये सः श्वरः । एवं श्री ऋष इति सिद्धम् । त्वं पुनः किंवि० ? अरभू । अकारेण राजते डप्रत्यये अर ईदृशः भइति वर्णो यस्य सः अरम् । एवं श्रीऋषभ इति सिद्धम् । 'अर' इत्यत्र भकारस्य न वकारः, संज्ञाशदत्वात् । चित्रत्वादनुस्वाराभावः । त्वं पुनः किंवि० ? युः ‘ई भुवि श्रिया मितिमहीपवचनात् ई-भूमिः,तस्याः उ:-शङ्करतुल्यः, सुखहेतुत्वादिति युः । त्वं पुनः किंवि० ? 'ऋ पृथिव्यां देवमातरी ति महीपवचनात् ऋपृथिवी, तस्या इन्द्रः-स्वामी स रिन्द्रः। चित्रत्वादनुस्वाराभावः ।, अथवा ऋ-पृथिवी, तत्र यन्ति-चरन्ति क्विपि रितो-मनुष्याः, तेषु राजते डप्रत्यये रिद्रः । त्वं पुनः किंवि० ? 'नो बुद्धौ ज्ञानबन्धयो'रिति सुधाकलशवचनात् नेषु-ज्ञानेषु परमं यत् प्रधानं तत् नपरं-केवलज्ञानमित्यर्थः। तद्विद्यते यम्य स नपरमी-केवलीत्यर्थः ॥२॥
इत्यर्थद्वयेन श्रीऋषभजिनं व्यावर्ण्य श्रीअजितजिनं वर्णयतिपरिग्रहारम्भ! मग्नास्तार ! ये युः कथं परान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥३॥ व्याख्या-ग्रहैः-सूर्यादिभिः, अरं-अत्यर्थं भातीति डप्रत्यये
For Private And Personal Use Only