________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१-४४] कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
५३ कल्पाया उदयः-विपाको वक्र एव भवति । अयमर्थः-नरके द्विसमयादिवक्रेण गच्छतो जीवस्य नरकानुपूर्व्या उदयः, तिर्यक्षु द्विसमयादिवक्रेण जीवस्य गच्छतस्तिर्यगानुपूर्व्या उदयः, मनुष्येषु द्विसमयादिवत्रेण गच्छतो जीवस्य मनुष्यानुपूर्व्या उदयः, देवेषु द्विसमयादिवशेण गच्छतो जीवस्य देवानुपूर्व्या उदयः । उक्तं च बृहत्कर्मविपाके
नरयाउयस्स उदए, नरए वक्केण गच्छमाणस्स । नरयाणुपुबियाए, तहिँ उदओ अन्नहिं नत्थि ॥ (गा० १२२) एवं तिरिमणुदेवे, तेसु वि वक्केण गच्छमाणस्स ।
तेसिमणुपुबियाणं, तहिं उदओ अन्नहिं नत्थि ॥ (गा० १२३) तथा विहायसा-आकाशेन गतिर्विहायोगतिः, सा द्विधा—'शुभा' प्रशस्ता 'अशुभा' अप्रशस्ता । क्रमेणोदाहरणमाह--"वसुट्ट" ति वृषः-वृषभः सौरभेयो बलीवर्द इति यावत् , ततो वृषस्य उपलक्षणत्वाद् गजकलभराजहंसादीनां प्रशस्ता विहायोगतिः । उष्ट्र:-करभः क्रमेलक इति यावत् , तत उष्ट्रस्य उपलक्षणत्वात् खरतिड्डादीनामप्रशस्ता विहायोगतिरिति ॥ ४२ ॥ व्याख्याताः पिण्डप्रकृतीनामुत्तरभेदाः, साम्प्रतमष्टौ प्रत्येकप्रकृतीरभिघित्सुराह--..
परघाउया पाणी, परेसि बलिणं पि होइ दुद्धरिसो।
ऊससणलद्धिजुत्तो, हवेइ ऊसासनामवसा॥४३॥ परान् आहन्ति-परिभवति परैर्वा न हन्यते-नाभिभूयत इति पराघातम् , तन्निबन्धनं नाम पराघातनाम । ततः 'पराघातोदयात्' पराघातनामकर्मविपाकात् 'प्राणी' जन्तुः 'परेषाम्' अन्येषां 'बलिनामपि बलवतामपि आस्तां दुर्बलानामित्यपिशब्दार्थः, 'भवति' जायते 'दुर्धर्षः' अनभिभवनीयमूर्तिः । अयमर्थः-यदुदयात् परेषां दुष्प्रधर्षः-महौजखी दर्शनमात्रेण वाक्सौष्ठवेन वा महाभूपसभामपि गतः सभ्यानामपि क्षोभमुत्पादयति प्रतिपक्षप्रतिभाप्रतिघातं च करोति तत् पराघातनामेत्यर्थः १। 'उच्छासनामवशाद्' उच्छासनामकर्मोदयेन 'उच्चसनलब्धियुक्तो भवति' उच्छासैलब्धिसमन्वितो जायते, यदुदयाद् उच्चसनलब्धिरात्मनो भवति तद् उच्छासनाम २ । सर्वलब्धीनां क्षायोपशमिकत्वाद् औदयिकी लब्धिर्न सम्भवतीति चेत् , नैतदस्ति, वैक्रियाहारकलब्धीनामौदयिकीनामपि सम्भवाद्, वीर्यान्तरायक्षयोपशमोऽपि चात्र निमित्तीभवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि न विरुध्यते ॥ ४३ ॥
रविबिंबे उ जियंगं, तावजुयं आयवाउ न उ जलणे ।
जमुसिणफासस्स तहि, लोहियवन्नस्स उदउ त्ति ॥४४॥ 'आतपाद्' आतपनामोदयाद् जीवानामङ्गं-शरीरं 'तापयुतं' खयमनुष्णमप्युष्णप्रकाशयुक्त भवति । आतपस्य पुनरुदयो रविबिम्ब एव, तुशब्द एवकारार्थः । कोऽर्थः ?-भानुमण्डलादिपार्थिवशरीरेष्वेव 'न तु' न पुनः 'ज्वलने' हुतभुजि । अत्र युक्तिमाह-'यद्' यस्मात् कारणात् 'तत्र' ज्वलने-ज्वलनजन्तुशरीरे तेजस्कायशरीर इत्यर्थः उष्णस्पर्शस्योदयस्तथा
१ नरकायुष उदये नरके वक्रेण गच्छतः । नरकानुपूर्व्यास्तत्रोदयोऽन्यत्र नास्ति ॥ एवं तिर्यग्मनुष्यदेवेषु तेष्वपि वक्रेण गच्छतः । तेषामानुपूर्वीणां तत्रोदयोऽन्यत्र नाति ॥ २ °सनिःश्वासल ख० ग० अ०॥
For Private and Personal Use Only