SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपतः [गाथा लोहितवर्णस्योदय इति, तेजस्कायशरीराण्येवोष्णस्पर्शीदयेनोष्णानि लोहितवर्णनामोदयात्तु प्रकाशयुक्तानि भवन्ति, न त्वातपोदयादिति भावः । यदुदयाद् जन्तुशरीराण्यात्मनाऽनुष्णान्यप्युष्णप्रकाशरूपमातपं कुर्वन्ति तद् आतपनामेत्यर्थः ३ ॥ १४ ॥ अणुसिणपयासरूवं, जियंगमुजोयए इहुज्जोया। जइदेवुत्तरविकियजोइसखज्जोयमाइ व्व ॥४५॥ इह 'उद्योताद्' उद्योतनामोदयेन 'जीबाङ्ग' जन्तुशरीरम् 'उद्योतते' उद्योतं करोति, कथम् ? इत्याह--अनुष्णप्रकाशरूपम् , उष्णप्रकाशरूपं हि वहिरप्युद्योतत इति तद्व्यवच्छेदार्थमनुष्णप्रकाशरूपमित्युक्तम् । आह क इवोद्योतोदयाद् जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति ? इत्याह—यतिदेवोत्तरवैक्रियज्योतिष्कखद्योतादय इव' तत्र यतयश्च-साधवः देवाश्च-सुराः यतिदेवाः, यतिदेवैर्मूलशरीरापेक्षयोत्तरकालं क्रियमाणं वैक्रियं यतिदेवोत्तरवैक्रियम् , ज्योतिष्काः-चन्द्रग्रहनक्षत्रताराः, खद्योताः-प्रतीताः, ततो यतिदेवोत्तरवैक्रियं च ज्योतिष्काश्च खद्योताश्च ते आदिर्येषां रनौषधीप्रभृतीनां ते यतिदेवोत्तरवैक्रियज्योतिष्कखद्योतादयस्त इव । अत्र मकारोऽलाक्षणिकः । अयमर्थः-यथा यतिदेवोत्तरवैक्रियं चन्द्रग्रहादिज्योतिष्काः खद्योता रत्नौषधीप्रभृतयश्चानुष्णप्रकाशात्मकमुद्योतं विदधति तथा यदुदयाद् जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतमातन्वन्ति तद् उद्योतनामेत्यर्थः ४ ॥ ४५ ॥ अंगं न गुरु न लहुयं, जायइ जीवस्स अगुरुलहुउदया। तित्थेण तिहुयणस्स वि, पुज्जो से उदओ केवलिणो॥४६॥ - 'अगुरुलघूदयाद्' अगुरुलघुनामोदयेन जीवस्य 'अङ्गं' शरीरं न गुरु न लघु 'जायते' भवति किन्तु अगुरुलधु । यत एकान्तगुरुत्वे हि वोढुमशक्यं स्यात् , एकान्तलघुत्वे तु वायुमाऽपह्रियमाणं धारयितुं न पार्येत । यदुदयाद् जन्तुशरीरं न गुरु न लघु नापि गुरुलघु किम्त्वगुरुलघुपरिणामपरिणतं भवति तद् अगुरुलघुनामेत्यर्थः ५। 'तीर्थेन' तीर्थकरनामकर्मवशात् 'त्रिभुवनस्यापि' देवमानवदानवलक्षणत्रिलोकलोकस्यापि 'पूज्यः' अर्यचनीयो भवति । 'से' तस्य तीर्थकरनामकर्मणः 'उदयः' विपाकः 'केवलिनः' उत्पन्नकेवलज्ञानस्यैव । यदुदयात् जीवः सदेवमनुजासुरलोकपूज्यमुत्तमोत्तमं “तित्थं भंते ! तित्थं तित्थयरे तित्थं ? गोयमा! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवन्ने समणसंघे पढमगणहरे वा ॥" (भग० श० २० उ०८ पत्र ७९२-२) इति परममुनिप्रणीतधर्मतीर्थस्य प्रवर्तयितृपदमवाप्नोति सत् तीर्थकरनामेत्यर्थः ६॥ ४६॥ अंगोवंगनियमणं, निम्माणं कुणइ सुत्तहारसमं। उषघाया उवहम्मइ, सतणुवयवलंबिगाईहिं ॥४७॥ 'निर्माण' निर्माणनाम 'अङ्गोपाङ्गनियमनम्' अङ्गप्रत्यङ्गानां नियतप्रदेशव्यवस्थापनं 'करोति' बिदधाति, अंत एवेदं 'सूत्रधारसमं' सूत्रभृत्कल्पम् । यदुदयाद् जन्तुशरीरेष्वङ्गोपाङ्गानां १ तीर्थ भदन्त ! तीर्थम् ? तीर्थकरस्तीर्थम् ? गौतम ! अहंस्तावनियमात् तीर्थङ्करः, तीर्थ पुनश्चतुर्वर्णः श्रमणस प्रथमगणभरो वा ॥ ३वतः सू० ख०॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy