SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा भूत्यादिवद् रूक्षं भवति तद् रूक्षस्पर्शनाम ८॥ ४० ॥ उक्तमष्टधा स्पर्शनाम । इदानीं वर्णादिचतुष्कोत्तरविंशतिभेदानां शुभाशुभत्वयोरभिधित्सया प्राह - नीलकसिणं दुगंधं, तित्तं कड्डयं गुरुं खरं रुक्खं । सीयं च असुहनवगं, इक्कारसगं सुभं सेसं ॥४१॥ 'नीलकृष्णं' नीलकृष्णाख्ये कर्मणी अशुभे, दुर्गन्धनाम, “तित्तं कडुयं” इति तिक्तकटुके रसनाम्नी, गुरु खरं रूक्षं शीतं चेति चत्वारि स्पर्शनामानि । एतानि च सर्वाण्यपि समुदितानि किमुच्यते? इत्याह-'अशुभनवक' नव प्रकृतयः परिमाणमस्य प्रकृतिवृन्दस्य तद् नवकम् , अशुभं च तद् नवकं च अशुभनवकम् । 'एकादशकम्' एकादर्शप्रकृतिसमूहरूपं, यथा रक्तपीतश्वेतवर्णाः, सुरभिगन्धः, मधुराऽम्लकषायरसाः, लघुमृदुस्निग्धोष्णस्पशों इति 'शुभं' शुभविपाकवेद्यत्वात् शुभस्वरूपम् । कीदृशं तत् ? इत्याह-'शेषं' कुवर्णनवकाद् अवशिष्टम् , कोऽर्थः । कुवर्णनवकात् शेषा एकादश वर्णादिभेदाः शुभवर्णैकादशकमुच्यत इति ॥ ४१ ।। अधुना गतिनामातिदेशेनाऽऽनुपूर्वीचतुष्टयम् , आनुपूर्वीसम्बन्धेनोत्तरत्रोपयोगिप्रकृतिसमुदायसवाहिनरकद्विकादिरूपं संज्ञान्तरं, विहायोगतिद्विकं चाभिधातुमाह--- चउह गइ व्वष्णुपुव्वी, गइपुग्विदुगं तिगं नियाउजुयं। पुव्वीउदओ वक्के, सुह असुह वसुदृ विहगगई ॥४२॥ चतुर्घा गतिरिवाऽऽनुपूर्वी प्रागुक्तरूपा भवति । कोऽर्थः?—गत्यभिधानव्यपदेश्यमानुपूीनाम, ततो निरयानुपूर्वीतिर्यगानुपूर्वीमनुष्यानुपूर्वीदेवानुपूर्वीभेदत आनुपूर्वीनाम चतुर्धति तात्पर्यम् । तत्र नरकगत्या नामकर्मप्रकृत्या सहचरिताऽऽनुपूर्वी नरकगत्यानुपूर्वी, तत्समकालं चास्या वेद्यमानत्वात् तत्सहचरितत्वम् । एवं तिर्यग्मनुष्यदेवाऽऽनुपूर्योऽपि वाच्याः। “गइपुविदुगं" ति इह पूर्वीशब्देनाऽऽनुपूर्वी भण्यते, आनुशब्दलोपः "ते लुग्वा" (सि० ३-२१०८) इति सूत्रेण, यथा देवदत्तः देवः दत्तः इति । ततो नरकादिगतिनरकाद्यानुपूर्वीखरूपं नरकादिद्विकमुच्यते । तदेव त्रिकमभिधीयते-गतिपूर्वीद्विकमिह काकाक्षिगोलकन्यायेन सम्बध्यते । कीदृशं तद् ? इत्याह–निजायुर्युतं' नरकाद्यायुष्कसमन्वितं नरकादित्रिकमुच्यत इति हृदयम् । उपलक्षणत्वाद् वैक्रियषट्कं विकलत्रिकम् औदारिकद्विकं वैक्रियद्विकम् आहारकद्विकम् अगुरुलघुचतुष्कं वैक्रियाष्टकमित्याद्यनुक्तं संज्ञान्तरं ग्राह्यम् । तत्र देवगतिर्देवानुपूर्वी नरकगतिर्नरकानुपूर्वी वैक्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियषट्कम् । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां जातयो विकलत्रिकम् । औदारिकशरीरं औदारिकाङ्गोपाङ्गमित्यौदारिकद्विकम् । वैक्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियद्विकम् । आहारकशरीरम् आहारकाङ्गोपाङ्गमित्याहारकद्विकम् । देवगतिर्देवानुपूर्वी देवायुर्नरकगतिर्नरकानुपूर्वी नरकायु क्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियाष्टकम् । अगुरुलघु१उपघात२पराघात३उच्छ्वास४लक्षणमगुरुलघुचतुष्कमिति । ननु आनुपूर्व्या उदयो नरकादिषु किमृजुगत्या गच्छत आहोखि वक्रगत्या ? इत्याशङ्कयाह-"पुबीउदओ वक्के" त्ति पूर्व्याः-आनुपूर्व्या वृषभस्य नासिकारज्जु१°शसङ्ख्याप्रकृ° ख० ग० ङ०॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy