________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१
१०]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । - यदुदयाद् जीवशरीर निम्बादिवत् तिक्तं भवति तत् तिक्तनाम १ । गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः । यदवादि
कटुर्गलामयं शोफं, हन्ति युक्त्योपसेवितः ।
दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः ।। यदुदयाद् जन्तुशरीरं मरिचादिवत् कटु भवति तत् कटुनाम २। रक्तदोषाद्यपहर्ता बिभीतकाऽऽमलककपिरथाद्याश्रितः कषायः । यदभाणि
रक्तदोषं कर्फ पित्तं, कषायो हन्ति सेवितः ।
रूक्षः शीतो गुरुग्राही, रोषणश्च खरूपतः ॥ यदुदयाद जन्तुशरीरं बिभीतकादिवत् कषायं भवति तत् कषायनाम ३ । अग्निदीपनादिकृद् अम्लीकाद्याश्रितोऽम्लः । यदभ्यधायि
अम्लोऽमिदीप्तिकृत् स्निग्धः, शोफपित्तकफापहः ।
क्लेदनः पाचनो रुच्यो, मूढवातानुलोमकः ॥ यदुदयाद् जीवशरीरमम्लीकादिवद् अम्लं भवति तद् अम्लनाम ४ । पित्तादिप्रशमकः खण्डशर्कराद्याश्रितो मधुरः । यदवाचि
पित्तं वातं कर्फ हन्ति, धातुवृद्धिकरो गुरुः ।
जीवनः केशकृद् बालवृद्धक्षीणौजसां हितः ॥ यदुदयाद जन्तुशरीरमिक्ष्वादिवद् मधुरं भवति तद् मधुरनाम ५ । स्थानान्तरे स्तम्भिताहारविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते, स चेह नोपातः, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात् । सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव खादुत्वोपपत्तेरिति । अभिहितं पञ्चधा रसनाम ॥ __ अधुना स्पर्शनाम अष्टधा प्राह-स्पृश्यन्त इति स्पर्शाः 'अष्टौ' अष्टसङ्ख्याका भवन्ति । सथाहि-गुरु१लघुरमृदु३खर४ शीत५उष्णदस्निग्ध७रूक्षाः ८ इति । तत्राधोगमनहेतुरयोगोलकादिगतो गुरुः १। प्रायस्तिर्यगूर्ध्वगमनहेतुरर्कतूलादिनिश्रितो लघुः २ । सन्नतिकारणं तिनिसलतादिगतो मृदुः ३ । स्तब्धतादिकारणं दृषदादिगतः खरः ४ । देहस्तम्भादिहेतुः पालेयाद्याश्रितः शीतः ५ । आहारपाकादिकारणं ज्वलनाद्यनुगत उष्णः ६ । पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः ७ । पुद्गलद्रव्याणां मिथोऽसंयुज्यमानानामबन्धनिबन्धनं भस्माद्याधारो रूक्षः ८। एतत्संसर्गजास्तु नोक्ताः, एष्वेवान्तर्भावादिति । ततो यदुदयाद जन्तुशरीरं गुरु भवति वज्रादिवद् तद् गुरुस्पर्शनाम १। यदुदयाद जन्तुशरीरमर्कतूलादिवद् लघु भवति तद् लघुस्पर्शनाम २। यदुदयाद् जन्तुशरीरं हंसरूतादिवद् मृदु भवति तद् मृदुस्पर्शनाम ३ । यदुदयाद् जन्तुशरीरं खरं-कर्कशं पाषाणादिव भवति तत् खरस्पर्शनाम ४ । यदुदयाद् जन्तुशरीरं शीतं-शीतलं मृणालादिवद् भवति तत् शीतस्पर्शनाम ५। यदुदयाद् जन्तुशरीरं हुतभुजादिवद् उष्णं भवति तद् उष्णस्पर्शनाम ६ । यदुदयाद् जन्तुशरीरं घृतादिवत् खिग्धं भवति तत् स्निग्धस्पर्शनाम ७ । यदुदयाद जन्तुशरीरं
For Private and Personal Use Only