SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ गाथा तोच्छ्रयः सर्वसंस्थानप्रधानः पञ्चेन्द्रियजीवशरीराकार विशेषः समचतुरस्रसंस्थाननिबन्धनं नाम समचतुरस्रनाम १ । न्यग्रोधवत् परिमण्डलं यस्य तद् न्यग्रोधपरिमण्डलम्, यथा न्यग्रोधःवटवृक्ष उपरि सम्पूर्णावयवोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णावयवम् अधस्तु न तथा तद् न्यग्रोधपरिमण्डलम्, तन्निबन्धनं नाम न्यग्रोधपरिमण्डलनाम २ । सह आदिनास्तनभागरूपेण यथोक्तप्रमाणयुक्तेन वर्तत इति सादि । सर्वमपि हि शरीरं सादि, ततः सादित्वविशेषणान्यथानुपपत्तेरादिरिह विशिष्टो ज्ञातव्यः । ततो यत्र नाभेरधो यथोक्तप्रमाणयुक्तमुपरि च हीनं तत् सादि संस्थानम्, तन्निबन्धनं नाम सादिनाम ३ । यत्र पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपपन्नम् उरउदरादि च मडभं तत् कुब्ज संस्थानम्, तन्निबन्धनं नाम कुब्जनाम ४ । यत्र पुनरुरउदरादि यथोक्तप्रमाणोपेतं हस्तपादादिकं च हीनं तद् वाममसंस्थानम्, तन्निबन्धनं नाम वामननाम ५ । अन्ये तु कुब्जवामनयोर्विपरीतं लक्षणमाहुः । यत्र सर्वेऽप्यवयवाः शास्त्रोक्तप्रमाणहीनांस्तत् सर्वत्रासंस्थितं हुण्डसंस्थानम्, तन्निबन्धनं नाम हुण्डनाम ६ । ततो यदुदयाद् जन्तुशरीरं समचतुरस्रसंस्थानं भवति तत्कर्मापि समचतुरस्रसंस्थाननामेति । एवं न्यग्रोधपरिमण्डलादिष्वपि योज्यम् । उक्तं षोढा संस्थाननाम || इदानीं पञ्चधा वर्णनामाऽऽह वर्णाः पञ्च भवन्ति कृष्ण १ नील २ लोहित ३ हरिद्र ४ सिताः ५ । तत्र यदुदयाद् जन्तुशरीरं कृष्णं भवति राजपट्टादिवत् तत्कर्मापि कृष्णनाम १ । यदुदयाद्जन्तुशरीरं मरकतादिवद् नीलं भवति तद् नीलनाम २ । यदुदयाद् जन्तुशरीरं लोहितं -रक्तं हिङ्गुलादिवद् भवति तद् लोहितनाम ३ | यदुदयाद् जन्तुशरीरं - हारिद्रं - पीतं हरिद्रावद् भवति तद् हारिद्रनाम ४ । यदुदयाद् जन्तुशरीरं सितं श्वेतं शङ्खादिवद् भवति तत् सितनाम ५ । कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते, न पुनः सर्वथैतद्विलक्षणा इति न दर्शिताः ॥ ३९ ॥ उक्तं वर्णनाम पञ्चधा । अथ गन्धनाम द्विधाऽऽह— Acharya Shri Kailassagarsuri Gyanmandir सुरहिदुरही रसा पण, तित्तकडुकसायअंबिला महुरा । फासा गुरुलघुमिउखरसीउण्हसिणिद्धरुक्खट्ठ ॥ ४० ॥ इह गन्धशब्दः प्रक्रमाद् गम्यते, ततः सुरभिगन्धो दुरभिगन्धश्च द्वेधा गन्धः । तत्र सौमु - ख्यकृत् सुरभिगन्धः, यदुदयाद् जन्तुशरीरं कर्पूरादिवत् सुरभिगन्धं भवति तत् सुरभिगन्धनाम १ । वैमुख्यकृत् दुरभिगन्धः, यदुदयाद् जन्तुशरीरं लशुनादिवद् दुरभिगन्धं भवति तद् दुरभिगन्धनाम २ । अत्राप्युभयसंयोगजाः पृथग् नोक्ताः, एतत्संसर्गजत्वादेव भेदाविवक्षणात् । उक्तं द्विधा गन्धनाम ॥ अथ पञ्चधा रसनामाऽऽह- रसाः पूर्वोक्तशब्दार्थाः पञ्च भवन्ति । तथाहि — तिक्तकटुकषायाम्लाश्चत्वारो मधुरश्च पञ्चमः । तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तितो रसः । तथा च भिषक्शास्त्रम् — श्लेष्माणमरुचिं पित्तं, तृषं कुष्ठं विषं ज्वरम् । हन्यात् तिक्तो रसो बुद्धेः, कर्ता मात्रोपसेवितः ॥ इति । १ हुण्डं सं० ख० ० ॥ २ङ्गुलकादि ख० ग० ङ० ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy