________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७-३९] कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
संहन्यन्ते-दृढीक्रियन्ते शरीरपुद्गला येन तत् संहननम् , तच्च 'अस्थिनिचयः' कीलिकादिरूपाणामस्मां निचयः-रचनाविशेषोऽस्थिनिचयः । तत् संहननं 'षड्या' षट्प्रकारैर्भवति । तद्यथा-वज्रऋषभनाराचं १ तथा ऋषभनाराचम् २ इहानुखारोऽलाक्षणिकः, नाराचम् ३ अर्धनाराचं ४ कीलिका ५ सेवार्तम् ६ । 'इह' प्रवचने 'ऋषभः' ऋषभशब्देन परिवेष्टनपट्ट उच्यते, 'वज्र वज्रशब्देन कीलिकाऽभिधीयते, 'नाराचं' नाराचशब्देनोभयतो मर्कटबन्धो भण्यते । 'इदम्' अस्थिनिचयात्मकं संहननम् 'औदारिकाङ्गे औदारिकशरीर एव, नान्येषु शरीरेषु, तेषामस्थिरहितत्वात् । इति गाथायुगलाक्षरार्थः । भावार्थः पुनरयम्-इह द्वयोरस्मोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेन अस्मा परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद् वज्रऋषभनाराचम् , तन्निबन्धनं नाम वजऋषभनाराचनाम १ । यत् पुनः कीलिकारहितं संहननं तद् ऋषभनाराचम् , तन्निबन्धनं नाम ऋषभनाराचनाम २ । यत्र पुनर्मर्कटबन्धः केवलो भवति न पुनः कीलिका ऋषभसंज्ञः पट्टश्च तद् नाराचम् , तन्निबन्धनं नाम नाराचनाम ३ । यत्र स्वेकपोर्श्वन मर्कटबन्धो द्वितीयपार्थेन च कीलिका भवति तद् अर्धनाराचम्, तन्निबन्धनं नामाऽर्धनाराचनाम ४ । यत्र पुनरस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत् कीलिकासंहननम् , तन्निबन्धनं नाम कीलिकानाम ५ । यत्र तु परस्परं पर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति खेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षन्ते तत् सेवार्तम् , तन्निबन्धनं नाम सेवातनाम ६ । यद्वा "छेवटुं" ति दकारस्य लुप्तस्येह दर्शनात् छेदानाम्-अस्थिपर्यन्तानां वृत्तं-परस्परसम्बन्धघटनालक्षणं वर्तनं वृत्तियत्र तत् छेदवृत्तम् , कीलिकापट्टमर्कटबन्धरहितमस्थिपर्यन्तमात्रसंस्पर्शि षष्ठमित्यर्थः । ततो यदुदयात् शरीरे वज्रऋषभनाराचसंहननं भवति तद् वज्रऋषभनाराचसंहनननामकर्मेति । एवमृषभनाराचादिष्वपि वाच्यमिति ॥ ३७ ॥ ३८॥ व्याख्यासं षडिधं संहनननाम । सम्प्रति षोढा संस्थाननाम विवक्षुराह
समचउरंसं निग्गोहसाइखुजाइ वामणं हुंडं ।।
संठाणा वन्ना किण्हनीललोहियहलिहसिया ॥ ३९॥ समचतुरस्रम् १ “निग्गोह" त्ति पदैकदेशेऽपि पदप्रयोगदर्शनात् न्यग्रोधपरिमण्डलम् २ साँदि ३ कुजम् ४ वामनम् ५ हुण्डम् ६ इति षट् ‘संस्थानानि' अवयवरचनात्मकशरीराकृतिस्वरूपाणि शरीरे भवन्तीति शेषः । तत्र समाः-शास्त्रोक्तलक्षणाऽविसंवादिन्यश्चतस्रोऽस्रयःपर्यासनोपविष्टस्य जानुनोरन्तरम् , आसनस्य ललाटोपरिभागस्य चान्तरम् , दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् , वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत् समचतुरस्रम् , “सुप्रातसुश्वसुदिवशारिकुक्षचतुरसैणीपदाऽजपदप्रोष्ठपदभद्रपदम्" (सि० ७-३-१२९) इति सूत्रेण समासान्तोऽप्रत्ययः, समचतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानम् । तुल्यारोहपरिणाहः सम्पूर्णलक्षणोपेताङ्गोपाङ्गावयवः खाङ्गुलाष्टाधिकश
१°कार भ० ख० ग० हु०॥ २ पार्श्वे म क ग । एवमग्रेऽपि ॥ ३ सादि ३ वामनम् ४ कुजम् ५ हु° ख० ग० ङ०॥
क० ७
For Private and Personal Use Only