________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा तथाहि-औदारिकऔदारिकबन्धननाम १ औदारिकतैजसबन्धननाम २ औदारिककार्मणबन्धननाम ३, वैक्रियवैक्रियबन्धननाम १ वैक्रियतैजसबन्धननाम २ वैक्रियकार्मणबन्धन. नाम ३, आहारकाऽऽहारकबन्धननाम १ आहारकतैजसबन्धननाम २ आहारककार्मणबन्धननाम ३ । तत्र पूर्वगृहीतैरौदारिकशरीरपुद्गलैः सह गृह्यमाणौदारिकपुद्गलानां बन्धो येन क्रियते तद् औदारिकौदारिकबन्धननाम १ । येनौदारिकपुद्गलानां तैजसशरीरपुद्गलैः सह सम्बन्धी विधीयते तद् औदारिकतैजसबन्धननाम २। येनौदारिकपुद्गलानां कार्मणशरीरपुद्गलैः सह सम्बन्धो विधीयते तद् औदारिककार्मणबन्धननाम ३ । एवमनेन न्यायेनान्यान्यपि बन्धनानि वाच्यानि । शेषबन्धननिरूपणायाह—'इयरदुसहियाणं तिन्नि" ति इतरे-खकीयनामापेक्षयाऽन्ये तैजसकार्मणशरीरे, ततः प्राकृतत्वादन्यथोपन्यासेऽपि द्वे च ते इतरे च द्वीतरे ताभ्यां सहितानि-युक्तानि द्वीतरसहितानि, यद्वा "दु" ति द्विकं तत इतरच तविकं चेतरद्विकं तेन सहितानि इतरद्विकसहितानि तेषां द्वीतरसहितानाम् इतरद्विकसहितानां वा, औदारिकवैक्रियाहारकाणामत्रापि योज्यम् , त्रीणि बन्धनानि भवन्ति । अयमाशयः-प्रत्येकमौदारिकवैक्रियाहारकाणां तैजसकार्मणाभ्यां युगपत् संयोगे त्रिकसंयोगरूपाणि त्रीणि बन्धनानि भवन्ति । तथाहि-औदारिकतैजसकार्मणबन्धननाम १ वैक्रियतैजसकार्मणबन्धननाम २ आहारकतैजसकार्मणबन्धननाम ३ । अर्थः पूर्वोक्त एव । न केवलमेषामौदारिकादीनामितरद्विकसहितानामेव त्रीणि बन्धनानि भवन्ति, किन्तु "तेसिं च" ति त्रीणीति शब्दो डमरुकमणिन्यायादत्रापि योज्यः । ततोऽयमर्थः-तयोश्चेतरशब्दवाच्ययोस्तैजसकार्मणयोः खनाम्ना इतरेण च योगे त्रीणि बन्धनानि भवन्ति । यथा-तैजसतैजसबन्धननाम १ तैजसकार्मणबन्धननाम २ कार्मणकार्मणबन्धननाम ३ । तदेवं नव त्रीणि त्रीणि च मिलितानि पञ्चदश बन्धनानीति । __ अत्राह-पञ्चानां शरीराणां द्विकादियोगप्रकारेण षड्डिशतिः संयोगा भवन्ति, तत्तुल्यबन्धनानि च कस्मात् न भवन्ति ? उच्यते-औदारिकवैक्रियाहारकाणां परस्परविरुद्धाऽन्योऽ. न्यसम्बन्धाभावात् पञ्चदशैव भवन्ति, नाधिकानि ।।
आह—यथा पञ्चदश बन्धनानि भवन्ति, एवमनेनैव क्रमेण पञ्चदश सङ्घाता अपि कस्मात् नाभिधीयन्ते ? सङ्घातितानामेव बन्धनभावात् , तथाहि—पाषाणयुग्मस्य कृतसङ्घातस्यैवोत्तरकालं वज्रलेपरालादिना बन्धनं क्रियते, तदसत् , यतो लोके ये खजातौ संयोगा भवन्ति त एव शुभाः, एवमिहापि खशरीरपुद्गलानां खशरीरपुद्गलैः सह ये संयोगरूपाः सङ्घातास्ते शुभा इति प्राधान्यख्यापनाय पञ्चैव सङ्घाता अभिहिता इति ॥ ३६ ॥ -- व्याख्यातानि पञ्चदशापि बन्धनानि । सम्प्रति संहनननाम षड्विधमभिधित्सुर्गाथायुगलमाह
संघयणमहिनिचओ, तं छद्धा वज़रिसहनारायं । तह रिसहनारायं, नारायं अद्धनारायं ॥ ३७॥ कीलिय छेवढं इह, रिसहो पट्टो य कीलिया वजं ।
उभओ मकडबंधो, नारायं इममुरालंगे ॥ ३८॥ १-२ °ह बन्धो ख० ग० अ०॥
For Private and Personal Use Only