SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५-२९] कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।। सशब्देनोपलक्षितं प्रकृतिदशकं त्रसदशकमिदमुच्यते इति शेषः । तथा स्थावरेण-स्थावरशब्देनोपलक्षितं त्रसदशकस्य विपक्षभूतं "दस" ति प्राकृतत्वाद् दशकं स्थावरदशकम् , तत् पुनरिदं वक्ष्यमाणमिति ॥ २६ ॥ तदेवाह थावर सुहुम अपजं, साहारणअथिरअसुभदुभगाणि । दुस्सरऽणाहज्जाजस, इय नामे सेयरा वीसं ॥ २७॥ इहापि नामशब्दस्य सम्बन्धात् स्थावरनाम सूक्ष्मनाम अपर्याप्तनाम साधारणनाम अस्थिरनाम अशुभनाम दुर्भगनाम दुःखरनाम अनादेयनाम "अजस" ति अयशःकीर्तिनाम । प्ररूपितं दशकद्वयमपि, अधुना दशकद्वयमीलने यथाभूता सतीयं विंशतिर्यद्विषयोच्यते तदाह"इय" ति 'इति' अमुना त्रसादिप्रदर्शितप्रकारेण "नामे" ति नामकर्मणि 'सेतरा' सप्रतिपक्षा प्रत्येकसंज्ञिता विंशतिर्विज्ञेया । तथाहि-त्रसनानः स्थावरनाम प्रतिपक्षभूतम् , एवं बादरसूक्ष्मप्रकृतीनामपि सेतरत्वं सुप्रतीतमेवेति ॥ २७ ॥ अथानन्तरोद्दिष्टत्रसादिविंशतिमध्ये यासां प्रकृतीनामाद्यपदनिर्देशेन याः संज्ञा भवन्ति ताः कथयन्नाह तसचउथिरछक्कं अथिरछक्कसुहमतिगथावरचउकं । सुभगतिगाइविभासा, तदाइसंखाहिँ पयडीहिं ॥ २८॥ सप्रकृत्योपलक्षितं चतुष्कं त्रसचतुष्कम् , एतदनुसारतः समासोऽन्यत्रापि कार्यः, ततो यथासम्भवं पुनरपि समाहारद्वन्द्वश्च । तत्र सचतुष्कं यथा-वसं बादरं पर्याप्तं प्रत्येकमिति । स्थिरषट्कम्-स्थिरं शुभं सुभगं सुखरम् आदेयं यशःकीर्तिश्चेति । अस्थिरषट्कम्-अस्थिराऽशुभदुर्भगदुःखराऽनादेयाऽयशःकीर्तिवरूपम् । सूक्ष्मत्रिकम्-सूक्ष्माऽपर्याप्तसाधारणलक्षणम् । स्थावरचतुष्कम्-स्थावरसूक्ष्माऽपर्याप्तसाधारणाख्यम् । सुभगत्रिकम्-सुभगसुखराऽऽदेयाभिधम् । आदिशब्दाद् दुर्भगत्रिकम्-दुर्भगदुःखराऽनादेयखरूपं गृह्यते । ततः सूत्रपदे समासो यथा-सुभगत्रिकमादिर्यस्य दुर्भगत्रिकस्य तत् सुभगत्रिकादि तस्य विभाषा-अरूपणा कर्तव्येति शेषः । काभिः कृत्वा पुनस्त्रसचतुष्कादिका विभाषा कर्तव्या ? इत्याह-'तदादिसझ्याभिः प्रकृतिभिः' सा-निर्दिष्टा प्रकृतिरादिर्यस्याः सङ्ख्यायाः सा तदादिः, तदादिः सङ्ख्या यासां प्रकृतीनां तास्तदादिसङ्ख्यास्ताभिस्तदादिसञ्जयाभिः प्रकृतिभिः, कोऽर्थः. याऽसौ प्रकृतिस्त्रसादिका निर्दिष्टा तामादौ कृत्वा निर्दिष्टसङ्ख्या पूरणीयेति । एताश्च संज्ञाः प्रकृतिपिण्डकसङ्ग्राहिण्यो यथास्थानमुपयोगमायास्यन्तीति कृत्वा प्ररूपिता इति ॥२८॥ उक्ता नामकर्मणो द्वाचत्वारिंशद् भेदाः । अथ तस्यैव त्रिनवतिभेदान् प्ररूपयितुकामो गत्यादिपदानां पिण्डप्रकृतिसंज्ञिकानां मध्ये येन पदेन यावन्तो भेदाः पिण्डिता वर्तन्ते तान् भेदान् तेषामाह गइयाईण उ कमसो, चउपणपणतिपणपंचछच्छकं । पणदुगपणष्टचउदुग, इय उत्तरभेयपणसही ॥ २९ ॥ 'गत्यादीनां' पिण्डप्रकृतीनां पूर्वप्रदर्शितखरूपाणां पुनः ‘क्रमशः' क्रमेण यथासङ्ख्यमिति १०कं त्रसंक०ग०॥ क०६ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy