________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाखा
४२ देवेन्द्रसूरिविरचितसोपाटीकोपेतः
[गाथा यावत् चतुरादयो मेदा भवन्तीति वाक्यार्थः । तथाहितिनाम चतुर्धा, जातिनाम पञ्चधा, तनुनाम पञ्चधा, उपाङ्गनाम त्रिधा, बन्धननाम पञ्चधा, सङ्घातननाम पञ्चधा, संहनननाम षोढा, संस्थाननाम षोढा, वर्णनाम पञ्चघा, गन्धनाम द्विघा, रसनाम पञ्धा, स्पर्शनामाऽष्टधा, आनुपूर्वीनाम चतुर्धा, विहायोगतिनाम द्वधा । एतेषां सर्वमीलने मैदानमाहेक "इय" ति 'इति' अमुना चतुरादिभेदमीलनप्रकारेणोत्तरभेदानां पञ्चषष्टिरिति ॥ २९ ॥
अडवीसजुया तिनवइ, संते वा पनरबंधणे तिसयं ।
बंधणसंघायगहो, तणूसु सामन्नवन्नचऊ ॥ ३०॥ एषा पूर्वोक्ता पञ्चषष्टिः 'अष्टाविंशतियुता' प्रत्येकप्रकृत्यष्टाविंशत्या सह मीलने त्रिभिरधिका नवतिस्त्रिनवतिर्भवति । सा च कोपयुज्यते ? इत्याह-"संते" ति प्राकृतत्वात् सत्तायां सत्कर्म प्रतीत्य बोद्धव्येत्यर्थः । वाशब्दो विकल्पार्थो व्यवहितसंबन्धश्च, स चैवं योज्यते'पञ्चदशबन्धनैस्त्रिशतं वा' पञ्चदशसहयैर्वक्ष्यमाणखरूपैर्बन्धनैः प्रदर्शितत्रिनवतिमध्ये प्रक्षिप्तैत्रिभिरधिकं शतं त्रिशतं वा सत्तायामधिक्रियते इति शेषः । अथ त्रिनवतिमध्ये पञ्चदशानां प्रकृतीनां प्रक्षेपेऽष्टोत्तरं शतं भवतीति चेद् उच्यते-या वक्ष्यमाणाः पञ्चदश बन्धननामप्रकृतयस्तासु मध्यात् सामान्यत औदारिकादिबन्धनपञ्चकस्य त्रिनवतिमध्ये पूर्व प्रक्षिप्तत्वात् शेषाणां दशानां प्रक्षेपे त्रिशतमेव भवतीति न कश्चिद्विरोधः । सूत्रे च "पनरबंधणे" इत्यत्र विभक्तिवचनव्यत्ययः प्राकृतत्वादिति । उक्ता नामकर्मणस्त्रिनवतिख्युत्तरशतं च भेदानाम् । अथ सप्तषष्टिभेदानाह--"बंधणसंघायगहो तणूसु" ति । बन्धनानि च पञ्चदश, सङ्घाताश्चसङ्घातनानि पञ्च, बन्धनसङ्घातास्तेषां ग्रहणं ग्रहो बन्धनसङ्घातग्रहः । 'तनुषु' शरीरेषु, तनुग्रहणेनैव बन्धनसङ्घाता गृह्यन्ते न पृथग विवक्ष्यन्त इत्यर्थः । तथा "सामनवन्नचऊ" ति सामान्यं-कृष्णनीलाद्यविशेषितं वर्णेनोपलक्षितं चतुष्कं सामान्यवर्णचतुष्कं गृह्यत इति शेषः । अयमत्राशयः-इह सप्तषष्टिमध्ये औदारिकादितनुपञ्चकमेव गृह्यते, न तहन्धनानि तत्सवातनानि च, यत औदारिकतन्वा खजातीयत्वाद् औदारिकतनुसदृशानि बन्धनानि तत्सङ्घाताश्च गृहीताः; एवं वैक्रियादितन्वाऽपि निर्जनिजबन्धनसङ्घाता गृहीता इति न पृथगेते पञ्चदश बन्धनानि पञ्च सङ्घाता गण्यन्ते । तथा वर्णगन्धरसस्पर्शानां यथासङ्ख्यं पञ्चद्विपञ्चाऽष्टमेदैनिष्पन्नां विंशतिमपनीय तेषामेव सामान्यं वर्णगन्धरसस्पर्शलक्षणं चतुष्कं गृह्यते, ततश्चानन्तरोदितात् व्युत्तरशताद वर्णादिषोडशकबन्धनपञ्चदशकसङ्घातपञ्चकलक्षणानां षट्त्रिंशत्मकृती. नामपसारणे सति सप्तषष्टिर्भवतीति ॥ ३० ॥ एतदेवाह
इय सत्तही बंधोदए य न य सम्ममीसया बंधे।
बंधुदए सत्ताए, वीसदुवीसट्ठवन्नसयं ॥ ३१॥ __'इति' पूर्वोक्तप्रकारेण सप्तषष्टिर्नामकर्मप्रकृतीनां भवति । सा च कोपयुज्यते? इत्याह"बंधोदए य" ति बन्धश्च उदयश्च बन्धोदयं तस्मिन् 'बन्धोदये' बन्धे च उदये च सप्तषष्टिर्भवति, चशब्दाद् उदीरणायां च सप्तषष्टिः । अथ बन्धनसङ्घातनवर्णादिविशेषाणां विवक्षा१°जा निजा ब° ख० ग०3०॥
For Private and Personal Use Only