SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४० देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ गाथा श पर्वरेखादीन्यङ्गोपाङ्गानि, ततश्चाङ्गानि चोपाङ्गानि च अङ्गोपाङ्गानि चेति द्वन्द्वे " स्यादावसवधेयः" ( सि० ३-१-११९ ) इत्येकशेषे च कृते अङ्गोपाङ्गानीति, तत्र यदुदयात् शरीरतयो - पात्ता अपि पुद्गला अङ्गोपाङ्गविभागेन परिणमन्ति तत् कर्मापि अङ्गोपाङ्गनाम ४ । बध्यन्तेगृह्यमाणपुद्गलाः पूर्वगृहीतपुद्गलैः सह श्लिष्टाः क्रियन्ते येन तद् बन्धनं तदेव नाम बन्धननाम . ५ । स्वत एव संनन्ति - सङ्घातमापद्यन्ते, ततस्ते संन्नन्तः सन्तः सङ्घात्यन्ते - प्रत्येकं शरीरपञ्चकप्रायोग्याः पुद्गलाः पिण्ड्यन्ते येन तत् सङ्घातनं तदेव नाम सङ्घातननाम ६ । संहन्यन्ते - धातूनामनेकार्थत्वाद् दृढीक्रियन्ते शरीरपुद्गलाः कपाटादयो लोहपट्टिकादिनेव येन तत् संहननं तदेव नाम संहनननाम ७ । सन्तिष्ठन्ते - विशिष्टावयवरचनात्मिकया शरीराकृत्या जन्तवो भवन्ति येन तत् संस्थानं तदेव नाम संस्थाननाम ८ । वर्ण्यते - अलङ्कियतेऽनेनेति वर्णः कृष्णादिः, जन्तुशरीरे कृष्णादिवर्णहेतुकं नामकर्मापि वर्णनाम ९ । गन्ध्यते - आघायत इति गन्धः, तद्धेतुत्वान्नामकर्मापि गन्धनाम १० । रस्यते - आखाद्यत इति रसस्तिक्तादिः, जन्तुशरीरे तिक्तादिरसहेतुकं कर्मापि रसनाम ११ । स्पृश्यत इति स्पर्शः कर्कशादिः, तद्धेतुत्वात् कर्मापि स्पर्शनाम १२ । द्विसमयादिना विग्रहेण भवान्तरं गच्छतो जन्तोरनुश्रेणिनियता गमनपरिपाटी आनुपूर्वी, तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी १३ । गमनं गतिः, सा पुनरत्र पादादिविहरणात्मिका देशान्तरप्राप्तिहेतुद्वन्द्रियादीनां प्रवृत्तिरभिधीयते, नैकेन्द्रियाणां पादादेरभावात् ततो विहायसा - नभसा गतिर्विहायोगतिः, तद्धेतुत्वात् कर्मापि विहायोगतिनाम १४ । ननु विहायसः सर्वगतत्वेन ततोऽन्यत्र गमनाभावाद् व्यवच्छेद्याभावेन विहायसेति विशेषणस्य वैयर्थ्यम्, सत्यम्, किन्तु यदि गतिरित्येवोच्येत तदा नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यात्, तद्व्यवच्छेदार्थं विहायोग्रहणमकारि, विहायसा गतिः प्रवृत्तिर्न तु भवगतिर्नारकादिकेति ॥ २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ प्रदर्शितानां गत्यादिप्रकृतीनामभिधानसङ्ख्याकथनपूर्वकमष्टौ प्रत्येकप्रकृतीराह - पिंडपयडि त्ति चउदस, परघाउस्सास आयवुज्जोयं । अगुरुलहुतित्थनिमिणोवघायमिय अट्ठ पत्तेया ॥ २५ ॥ एतैर्गतिनामादिभिः पदैर्वक्ष्यमाणचतुरादिभेदानां पिण्डितानां प्रतिपादनात् पिण्डप्रकृतय उच्यन्ते । काः ? 'इति' इति एता गत्यादयोऽनन्तरगाथोद्दिष्टाः प्रकृतयः । कियन्त्यः पुनस्ताः ? इत्याह-- चतुर्दशसङ्ख्याः । तथा प्रक्रमान्नामशब्दः पराघातादिष्वप्यध्याहार्यः, तद्यथा— पराघातनाम उच्छ्रासनाम आतपनाम उद्द्योतनाम अगुरुलघुनाम " तित्थ" चि तीर्थकरनाम “निमिण” त्ति निर्माणनाम उपघातनाम 'इति' एताः पराघातादयः 'अष्टौ ' अष्टसङ्ख्याः प्रत्येकप्रकृतयो ज्ञेयाः, आसां पिण्डप्रकृतिवदन्य भेदाभावादिति ॥ २५ ॥ तस बायर पज्जन्तं, पत्तेय थिरं सुभं च सुभगं च । सुसराऽऽज्ज जसं तसदसगं थावरदसं तु इमं ॥ २६ ॥ नामशब्दस्येहापि सम्बन्धात् त्रसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम 'चशब्दौ ' समुच्चये सुखरनाम आदेयनाम " जसं " ति यशः कीर्तिनाम इत्येवं For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy